श्रवणम्

9.103.3
परि॒ कोशं᳚ मधु॒श्चुत᳚म॒व्यये॒ वारे᳚ अर्षति ।
अ॒भि वाणी॒रृषी᳚णां स॒प्त नू᳚षत ॥
▶ पदपाठः (Word-by-word)
परि᳚ । कोश᳚म् । म॒धु॒॑श्चुत᳚म् । अ॒व्यये᳚ । वारे᳚ । अ॒र्ष॒ति॒ ।
अ॒भि । वाणीः᳚ । ऋषी᳚णाम् । स॒प्त । नू॒ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमः अव्यये अविमये वारे वाले पवित्रे मधुश्चुतं मधुररसस्य च्यावयितारं कोशं द्रोणकलशं प्रति आत्मीयं रसं पर्यर्षति गमयति तमिमं सोमं ऋषीणां सप्तवाणीः छन्दां- सि अभिनूषत अभिष्टुवन्ति । नूस्तवने कुटादिः ॥ ३ ॥