श्रवणम्

9.103.2
परि॒ वारा᳚ण्य॒व्यया॒ गोभि᳚रञ्जा॒नो अ᳚र्षति ।
त्री ष॒धस्था᳚ पुना॒नः कृ᳚णुते॒ हरि᳚ः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । वारा᳚णि । अ॒व्यया᳚ । गोभिः᳚ । अ॒ञ्जा॒नः । अ॒र्ष॒ति॒ ।
त्री । स॒ध॑स्था᳚ । पु॒ना॒नः । कृ॒णु॒ते॒ । हरिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोभिर्गोविकारैः क्षीरादिभिः अंजानः अज्यमानः सोमः अव्यया अविमयानि वाराणि वालानि पवित्राणि पर्यर्षति परिगच्छति । अपिच हरिर्हरितवर्णः सोमः पुनानः पूयमानः सन् त्री त्रीणि सधस्था सहतिष्ठंत्यत्रेति सधस्थं स्थानं द्रोणकलशाधवनीयपूतभृदात्मकानि त्रीणि स्थानानि कृणुते करोति ॥ २ ॥