श्रवणम्

9.112.2
जर᳚तीभि॒रोष᳚धीभिः प॒र्णेभि᳚ः शकु॒नाना᳚म् ।
का॒र्मा॒रो अश्म᳚भि॒र्द्युभि॒र्हिर᳚ण्यवन्तमिच्छ॒तीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
जर᳚तीभिः । ओष᳚धीभिः । प॒र्णेभिः᳚ । श॒कु॒नाना᳚म् ।
का॒र्मा॒रः । अश्म᳚॑भिः । द्यु॑भिः᳚ । हिर᳚ण्य॑वन्तम् । इ॒च्छ॒ति॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जरतीभिः जीर्णाभिः याभिरोषधीभिः इषवः क्रियन्ते । तथा शकुनानां पर्णेभिः इषू- णां पक्षभूतैः पर्णैश्च क्रियन्ते । तथा द्युभिर्दीप्ताभिरिषूणां तेजनार्थाभिरश्मभिः शिलाभिश्च क्रियन्ते तएतैः कार्मारोयस्कारः हिरण्यवन्तं आढ्यं पुरुषमिच्छति तथाहं त्वत्परिस्रवण- मिच्छामि । तस्मात् इन्दो इन्द्राय परिस्रव ॥ २ ॥