अश्वो॒ वोळ्हा᳚ सु॒खं रथं᳚ हस॒नामु᳚पम॒न्त्रिणः᳚ ।
शेपो॒ रोम᳚ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक᳚ इच्छ॒तीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
शेपो॒ रोम᳚ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक᳚ इच्छ॒तीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
पदपाठः (Word-by-word)
अश्वः᳚ । वोळ्हा᳚ । सु॒खम् । रथ᳚म् । ह॒स॒नाम् । उ॒प॒॑म॒न्त्रिणः᳚ ।
शेपः᳚ । रोम᳚ण्॑वन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः᳚ । इ॒च्छ॒ति॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
शेपः᳚ । रोम᳚ण्॑वन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः᳚ । इ॒च्छ॒ति॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
सायणभाष्यम् (Sayana Commentary)
वोह्ळा लक्षं देशं प्रापयन्नश्वः सुखं कल्याणं रथमिच्छति उपमंत्रिणः उपमंत्रवन्तो नर्मसचिवाः हसनां उपहसनां वाचमिच्छन्ति तथा शेपः । शेपोवैतसइतिपुंस्प्रजननस्येति- यास्कः । यथा शेपः रोमण्वन्तौ भेदाविच्छति । मंडूकः वारित् इदवधारणे उदकमेवेच्छ- ति तथा हं त्वत् परिस्रवणमिच्छामि तस्मादिन्द्रायेन्दोपरिस्रवेति ॥ ४ ॥
शर्यणावतीत्येकादशर्चं दशमं सूक्तं मारीचस्य कश्यपस्यार्षं पूर्वत्रहीत्युक्तत्वात् इदमु- त्तरंच पांक्तं पवमानसोमदेवताकम् । तथाचानुक्रम्यते—शर्यणावत्येकादशकाश्यपइति । गतोविनियोगः ।