श्रवणम्

9.112.3
का॒रुर॒हं त॒तो भि॒षगु᳚पलप्र॒क्षिणी᳚ न॒ना ।
नाना᳚धियो वसू॒यवो॑नु॒ गा इ᳚व तस्थि॒मेन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
का॒रुः । अ॒हम् । त॒तः । भि॒षक् । उ॒प॒ल॒॑प्र॒क्षिणी᳚ । न॒ना ।
नाना᳚॑धियः । व॒सु॒॑यवः᳚ । अनु᳚ । गाः॑इ᳚व । त॒स्थि॒म॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः प्रवृत्तसोमयागः सन् दशापवित्रात् सोमे क्षरति तत्प्रतिबन्धकपापापनुत्तये पुर- श्चरितानुकीर्तनपुरः सरं अध्येषणां चकार । तावदहं कारुः स्तोमानां कर्तास्मि ततइति सन्ताननाम । तन्यतेस्मादिति ततः पिता तन्यते साविति वा ततः पुत्रः भिषक् भेषजकृ- त् यज्ञस्य ब्रह्मेत्यर्थः । सर्वं त्रय्या विद्यया भिषज्यतीतिश्रुतेः । तथा उपलप्रक्षिणी उपले- षु वालुकासु प्रक्षिणोति यवान् हिनस्ति भृज्जतीति यद्वा दृषदादिषूपलेषु भृष्टान् यवान् हिनस्ति चूर्णयतीति । अथवा धानासक्तुकरंभादीनां कारिकावा असौ नना माता दुहिता वा नमनक्रियायोग्यत्वात् माता खलु अपत्यं प्रति स्तनपानादिना नमनशीला भवति दुहितावा शुश्रूषार्थं एवं सर्वेषां परिचरणेन नानाधियः नानाकर्माणः वसूयवोधनकामावयं अनुतस्थिम लोकमन्वास्थितास्मः । तत्र दृष्टान्तः—गाइव छान्दसोजसःशसादेशः गावोयथा गोष्ठमनुतिष्ठन्ति स्वपयःप्रदानेन परिचरन्तिवा एवं वयमपि परिचरामः । एतत् ज्ञात्वा हे इन्दो सोम इन्द्राय परिस्रव दशापवित्रात् क्षर एवमेषाध्येषणा सत्कारपूर्विका व्यापा- रणा । अत्र निरुक्तं—उपलप्रक्षिण्युपलेषु प्रक्षिणात्युपलप्रक्षेपिणीवाकारुरहमस्मिकर्तास्तोमा- नांततोभिषक् ततइतिसंताननामपितुर्वापुत्रस्यवोपलप्रक्षिणीसक्तुकारिकाननानमतेर्मातावादु- हितावानानाधियोनानाकर्माणोवसूयवोवसुकामाअन्वास्थितास्मोगावइवलोकमिति ॥ ३ ॥