श्रवणम्

9.81.1
प्र सोम᳚स्य॒ पव᳚मानस्यो॒र्मय॒ इन्द्र᳚स्य यन्ति ज॒ठरं᳚ सु॒पेश᳚सः ।
द॒ध्ना यदी॒मुन्नी᳚ता य॒शसा॒ गवां᳚ दा॒नाय॒ शूर᳚मु॒दम᳚न्दिषुः सु॒ताः ॥
▶ पदपाठः (Word-by-word)
प्र । सोम᳚स्य । पव᳚मानस्य । ऊ॒र्मयः᳚ । इन्द्र᳚स्य । य॒न्ति॒ । ज॒ठर᳚म् । सु॒॑पेश᳚सः ।
द॒ध्ना । यत् । ई॒म् । उत्॑नी᳚ताः । य॒शसा᳚ । गवा᳚म् । दा॒नाय᳚ । शूर᳚म् । उ॒त्॑अम᳚न्दिषुः । सु॒ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमस्य पवमानस्य पूयमानस्य ऊर्मयोरसप्रवाहः इन्द्रस्य जठरं प्रयन्ति प्रगच्छन्ति सुपेशसः सुरूपाऊर्मयइतिसंबंधः यद्यदा ईमेतेसुताअभिषुताः सोमाः गवां यशसा बलभूतेन दध्नासदोन्नीताः सन्तोदानाय यजमानविषयाभिमतदानाय शूरं विक्रान्तमिन्द्रं उदमन्दिषुः उन्मादयन्ति तदा जठरंयन्ति ॥ १ ॥