आ नः᳚ सोम॒ पव᳚मानः किरा॒ वस्विन्दो॒ भव᳚ म॒घवा॒ राध᳚सो म॒हः ।
शिक्षा᳚ वयोधो॒ वस᳚वे॒ सु चे॒तुना॒ मा नो॒ गय᳚मा॒रे अ॒स्मत्परा᳚ सिचः ॥
शिक्षा᳚ वयोधो॒ वस᳚वे॒ सु चे॒तुना॒ मा नो॒ गय᳚मा॒रे अ॒स्मत्परा᳚ सिचः ॥
पदपाठः (Word-by-word)
आ । नः॒ । सो॒म॒ । पव᳚मानः । कि॒र॒ । वसु᳚ । इन्दो॒ इति᳚ । भव᳚ । म॒घ॑वा᳚ । राध᳚सः । म॒हः ।
शिक्ष᳚ । व॒यः॒॑धः॒ । वस᳚वे । सु । चे॒तुना᳚ । मा । नः॒ । गय᳚म् । आ॒रे । अ॒स्मत् । परा᳚ । सि॒चः॒ ॥
शिक्ष᳚ । व॒यः॒॑धः॒ । वस᳚वे । सु । चे॒तुना᳚ । मा । नः॒ । गय᳚म् । आ॒रे । अ॒स्मत् । परा᳚ । सि॒चः॒ ॥
सायणभाष्यम् (Sayana Commentary)
आकिर सर्वतोविक्षिप नोस्मभ्यम् । हे सोम पवमानः पूयमानस्त्वम् । किंच वसुवासकंधनं गवादिरूपम् । किंच हे इन्दो दीप्तसोम मघवा धनवांस्त्वं महोमहतो राधसोधनस्यभव । दातेतिशेषः । तथा हे वयोधाः अन्नस्यधातः सोम वसवे वासकाय परिचरतेमह्यं चेतुना कष्टेन प्रज्ञानेन सु सुखं कल्याणं शिक्ष देहि । नोस्मभ्यं प्रदेयं गयं धनं अस्मदारे अस्मत्तो दूरं मापरासिचः माप्रेरय ॥ ३ ॥