श्रवणम्

9.81.2 समानपद
अच्छा॒ हि सोमः᳚ क॒लशा{4}॒ असि᳚ष्यद॒दत्यो॒ न वोळ्हा᳚ र॒घुव᳚र्तनि॒र्वृषा᳚ ।
अथा᳚ दे॒वाना᳚मु॒भय᳚स्य॒ जन्म᳚नो वि॒द्वा{4} अ᳚श्नोत्य॒मुत᳚ इ॒तश्च॒ यत् ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । हि । सोमः᳚ । क॒लशा᳚न् । असि᳚स्यदत् । अत्यः᳚ । न । वोळ्हा᳚ । र॒घु॑व᳚र्तनिः । वृषा᳚ ।
अथ᳚ । दे॒वाना᳚म् । उ॒भय᳚स्य । जन्म᳚नः । वि॒द्वान् । अ॒श्नो॒ति॒ । अ॒मुतः᳚ । इ॒तः । च॒ । यत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

असौसोमः कलशानच्छाभिमुखं असिस्यदत् स्यन्दते कइव अत्योनवोह्ळा रथस्यवा- हकःअश्वइव सयथा स्वगंतव्यमभिगच्छतितद्वत् । यद्वायमुत्तरत्रदृष्टान्तः—वोह्ळाश्वइव र- घुवर्तनिः लघुगमनः वृषावर्षकश्च । अथापिच देवानां सोमसजोषामुभयस्योभयविधं जन्म नोजातं विद्वान् जानन् असिष्यदत् कलशान् । किं तदुभयं जन्मेति उच्यते यद्देवजातं अमुतोद्युलोकात् इतश्चास्माद्भूलोकाद्वाश्नोतिव्याप्नोति यज्ञं तस्योभयस्यजातं विद्वानिति- संबन्धः ॥ २ ॥