उ॒भे द्यावा᳚पृथि॒वी वि᳚श्वमि॒न्वे अ᳚र्य॒मा दे॒वो अदि᳚तिर्विधा॒ता ।
भगो॒ नृशंस᳚ उ॒र्व१॒᳚न्तरि᳚क्षं॒ विश्वे᳚ दे॒वाः पव᳚मानं जुषन्त ॥
भगो॒ नृशंस᳚ उ॒र्व१॒᳚न्तरि᳚क्षं॒ विश्वे᳚ दे॒वाः पव᳚मानं जुषन्त ॥
पदपाठः (Word-by-word)
उ॒भे इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । वि॒श्व॒मि॒न्वे इति᳚ वि॒श्व॒म्॑इ॒न्वे । अ॒र्य॒मा । दे॒वः । अदि᳚तिः । वि॒॑धा॒ता ।
भगः᳚ । नृ॑शंसः᳚ । उ॒रु । अ॒न्तरि᳚क्षम् । विश्वे᳚ । दे॒वाः । पव᳚मानम् । जु॒ष॒न्त॒ ॥
भगः᳚ । नृ॑शंसः᳚ । उ॒रु । अ॒न्तरि᳚क्षम् । विश्वे᳚ । दे॒वाः । पव᳚मानम् । जु॒ष॒न्त॒ ॥
सायणभाष्यम् (Sayana Commentary)
विश्वमिन्वे । इन्वतिर्व्याप्तिकर्मा । सर्वव्यापिन्यावुभेद्यावापृथिवी द्यावापृथिव्यौ अर्यमा- दयस्त्रयश्च भगश्च नृशंसोनृभिः शंसनीयः उर्वन्तरिक्षंच विश्वेदेवाश्च पवमानं पूयमानं सोमं जुषन्त सेवन्ते ॥ ५ ॥
असावीतिपंचर्चं पंचदशंसूक्तं ऋष्याद्याः पूर्ववत् । अस्यानुक्रमणिका—असावीतित्रिष्टु- बन्तइति । अनेनद्विवचनेन प्रकृतयोः प्रसोमस्येत्यादिकयोर्द्वयोरपि त्रिष्टुन्तता प्रतिपादिता । गतोविनियोगः ।