श्रवणम्

9.91.4
रु॒जा दृ॒ळ्हा चि᳚द्र॒क्षस॒ः सदां᳚सि पुना॒न इ᳚न्द ऊर्णुहि॒ वि वाजा᳚न् ।
वृ॒श्चोपरि᳚ष्टात्तुज॒ता व॒धेन॒ ये अन्ति᳚ दू॒रादु᳚पना॒यमे᳚षाम् ॥
▶ पदपाठः (Word-by-word)
रु॒ज । दृ॒ळ्हा । चि॒त् । र॒क्षसः᳚ । सदां᳚सि । पु॒ना॒नः । इ॒न्दो॒ इति᳚ । ऊ॒र्णु॒हि॒ । वि । वाजा᳚न् ।
वृ॒श्च । उ॒परि᳚ष्टात् । तु॒ज॒ता । व॒धेन᳚ । ये । अन्ति᳚ । दू॒रात् । उ॒प॒॑ना॒यम् । ए॒षा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम दृह्ळाचित् दृढान्यपि परैरगन्तव्यत्वेन रक्षसोराक्षसस्य सदांसि स्थानानि पुराणि रुज विनाशय । रुजोभंगे तौदादिकः । किंच हे इन्दो पवमानः पुनानः पवित्रा- दिभिः पूयमानस्त्वं वाजान् अन्नानि तस्य बलानिवा विविधं ऊर्णुहि आच्छादय आह- रेत्यर्थः । तथा येराक्षसा उपरिष्टादूर्ध्वदेशादागच्छन्ति ये वा अन्तिके समीपे आगच्छन्ति ये च दूरात् दूरदेशाद्वा आगच्छन्ति येषां राक्षसानां उपनायं उपनेतारं स्वामिनं तुजता तुजतिर्हिंसाकर्मा । हिंसकेन वधेन हननसाधनेनायुधेन त्वं वृश्च छिन्धि । ओव्रश्चूछेदने तौदादिकः ॥ ४ ॥