श्रवणम्

9.24.6
पव᳚स्व वृत्रहन्तमो॒क्थेभि᳚रनु॒माद्य᳚ः ।
शुचि᳚ः पाव॒को अद्भु᳚तः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । वृ॒त्र॒ह॒न्॑त॒म॒ । उ॒क्थेभिः᳚ । अ॒नु॒॑माद्यः᳚ ।
शुचिः᳚ । पा॒व॒कः । अद्भु᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्तम शत्रूणां अतिशयेन हन्तरिन्द्र त्वं पवस्व क्षर । कीदृशस्त्वं उक्थेभिः शस्त्रैः अनुमाद्यः स्तुत्यः शुचिः शुद्धः पावकः अन्यस्यशोधकः अद्भुतो महान् एवं महानुभावः पवस्व ॥ ६ ॥