श्रवणम्

9.24.3
प्र प᳚वमान धन्वसि॒ सोमेन्द्रा᳚य॒ पात᳚वे ।
नृभि᳚र्य॒तो वि नी᳚यसे ॥
▶ पदपाठः (Word-by-word)
प्र । प॒व॒मा॒न॒ । ध॒न्व॒सि॒ । सोम᳚ । इन्द्रा᳚य । पात᳚वे ।
नृ॑भिः᳚ । य॒तः । वि । नी॒य॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम इन्द्रायेन्द्रस्य पातवे पानाय प्रधन्वसि प्रगच्छसि आहवनीयंप्रति हविर्धानात् । तदेवाह-नृभिर्नेतृभिरृत्विग्भिर्यतो विनोतो विनीयसे हविर्धानात् । अथवा पवमान प्रधन्वसि पात्रं प्रति इन्द्रपानाय तदर्थं हविर्धानाद्विनीयसे ॥ ३ ॥