श्रवणम्

9.24.5
इन्दो॒ यदद्रि᳚भिः सु॒तः प॒वित्रं᳚ परि॒धाव᳚सि ।
अर॒मिन्द्र᳚स्य॒ धाम्ने᳚ ॥
▶ पदपाठः (Word-by-word)
इन्दो॒ इति᳚ । यत् । अद्रि᳚॑भिः । सु॒तः । प॒वित्र᳚म् । प॒रि॒॑धाव᳚सि ।
अर᳚म् । इन्द्र᳚स्य । धाम्ने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो त्वं यद्यदा अद्रिभिर्ग्रावभिः सुतोभिषुतः पवित्रं दशापवित्रं परिधावसि परिगच्छसि । तदा इन्द्रस्य धाम्ने स्थानायाधारकाय उदराय वा अरं पर्याप्तोभवसि ॥ ५ ॥