इन्द्रा᳚य सोम॒ परि᳚ षिच्यसे॒ नृभि᳚र्नृ॒चक्षा᳚ ऊ॒र्मिः क॒विर᳚ज्यसे॒ वने᳚ ।
पू॒र्वीर्हि ते᳚ स्रु॒तय॒ः सन्ति॒ यात᳚वे स॒हस्र॒मश्वा॒ हर᳚यश्चमू॒षदः᳚ ॥
पू॒र्वीर्हि ते᳚ स्रु॒तय॒ः सन्ति॒ यात᳚वे स॒हस्र॒मश्वा॒ हर᳚यश्चमू॒षदः᳚ ॥
पदपाठः (Word-by-word)
इन्द्रा᳚य । सो॒म॒ । परि᳚ । सि॒च्य॒से॒ । नृ॑भिः᳚ । नृ॒॑चक्षाः᳚ । ऊ॒र्मिः । क॒विः । अ॒ज्य॒से॒ । वने᳚ ।
पू॒र्वीः । हि । ते॒ । स्रु॒तयः᳚ । सन्ति᳚ । यात᳚वे । स॒हस्र᳚म् । अश्वाः᳚ । हर᳚यः । च॒मू॒॑सदः᳚ ॥
पू॒र्वीः । हि । ते॒ । स्रु॒तयः᳚ । सन्ति᳚ । यात᳚वे । स॒हस्र᳚म् । अश्वाः᳚ । हर᳚यः । च॒मू॒॑सदः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वमिन्द्रायेन्द्रार्थं नृभिर्नेतृभिरृत्विग्भिः परिषिच्यते अभिषूयसे । तथा हेसोम नृचक्षाःनृणां यष्टृणामनुग्रहेण द्रष्टा ऊर्मिः प्रेर्यमाणःप्रवृद्धोवा कविर्मेधावी च त्वं वनेउदके अज्यसे प्रेर्यसे पूर्वीर्बद्भ्योहि तेस्त्रुतयोमार्गाः छिद्राणिसन्ति यातवे यातुम् । अल्पस्यसोमस्या- परिमितस्तुतिगमनासंभवात्तस्यबाहुल्यमाह चमूषदः अभिषवणफलकयोः सीदतः सहस्रं अपरिमिता अश्वा व्याप्ता हरयोहरितवर्णाः अंशवःसन्ति अथचेन्द्राय परिषिच्यसइत्युक्त- त्वादिन्द्रप्राप्तौमार्गसाधनयोः सद्भाव उत्तरार्धेनप्रतिपादितः । तेपुरातन्यः सरण्यः सन्तीन्द्रं प्रतियातुम् । तथा सहस्त्रसंख्याकाहरितवर्णाः अश्वाश्च सन्ति अथचेन्द्राय चमूषदस्तवेति ॥ २ ॥