स॒मु॒द्रिया᳚ अप्स॒रसो᳚ मनी॒षिण॒मासी᳚ना अ॒न्तर॒भि सोम᳚मक्षरन् ।
ता ईं᳚ हिन्वन्ति ह॒र्म्यस्य᳚ स॒क्षणिं॒ याच᳚न्ते सु॒म्नं पव᳚मान॒मक्षि᳚तम् ॥
ता ईं᳚ हिन्वन्ति ह॒र्म्यस्य᳚ स॒क्षणिं॒ याच᳚न्ते सु॒म्नं पव᳚मान॒मक्षि᳚तम् ॥
पदपाठः (Word-by-word)
स॒मु॒द्रियाः᳚ । अ॒प्स॒रसः᳚ । म॒नी॒षिण᳚म् । आसी᳚नाः । अ॒न्तः । अ॒भि । सोम᳚म् । अ॒क्ष॒र॒न् ।
ताः । ई॒म् । हि॒न्व॒न्ति॒ । ह॒र्म्यस्य᳚ । स॒क्षणि᳚म् । याच᳚न्ते । सु॒म्नम् । पव᳚मानम् । अक्षि᳚तम् ॥
ताः । ई॒म् । हि॒न्व॒न्ति॒ । ह॒र्म्यस्य᳚ । स॒क्षणि᳚म् । याच᳚न्ते । सु॒म्नम् । पव᳚मानम् । अक्षि᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
समुद्रियाः समुद्रसाधनत्वात्समुद्रमन्तरिक्षं तत्संबन्धिन्यः अप्सरसः काश्चनअंतर्यज्ञमध्ये आसीनाः पात्रेषुवर्तमानाः वसतीवर्योमनीषिणं मेधाविनं सोममभ्यक्षरन् अभिषूयमाणं सोममभिक्षरन्ति ताईं एनं एवमानं हर्म्यस्य हर्म्यवत्सुखकरस्य यागगृहस्य सक्षणिं चेत- नशीलं हिन्वन्ति वर्धयन्ति पोषयन्ति तएते स्तोतारोवा पवमानं सोमं अक्षितमक्षिणं सुम्नं सुखं याचन्ते प्रार्थयन्ते तत्रायंभावः काश्चनाप्सरसः सोमंराजानं मनीषिणंकामय- माना देवानपिपरित्यज्य स्वर्गादागत्य राजः समीपेस्थित्वा तस्यरसानाददते स्वरसेनव- र्धयन्ति तंसुखं याचन्तइति ॥ ३ ॥