गो॒जिन्न॒ः सोमो᳚ रथ॒जिद्धि᳚रण्य॒जित्स्व॒र्जिद॒ब्जित्प᳚वते सहस्र॒जित् ।
यं दे॒वास᳚श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि᳚ष्ठं द्र॒प्सम᳚रु॒णं म᳚यो॒भुव᳚म् ॥
यं दे॒वास᳚श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि᳚ष्ठं द्र॒प्सम᳚रु॒णं म᳚यो॒भुव᳚म् ॥
पदपाठः (Word-by-word)
गो॒॑जित् । नः॒ । सोमः᳚ । र॒थ॒॑जित् । हि॒र॒ण्य॒॑जित् । स्वः॒॑जित् । अ॒प्॑जित् । प॒व॒ते॒ । स॒ह॒स्र॒॑जित् ।
यम् । दे॒वासः᳚ । च॒क्रि॒रे । पी॒तये᳚ । मद᳚म् । स्वादि᳚ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒॑भुव᳚म् ॥
यम् । दे॒वासः᳚ । च॒क्रि॒रे । पी॒तये᳚ । मद᳚म् । स्वादि᳚ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒॑भुव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
नोस्माकं गोजित् गवांजेता तथा रथजित् रथस्यजेता हिरण्यजित् हिरण्यजेता तथा स्वर्जित् स्वर्गस्य सुखस्यजेता अज्बित् अपांजेता सहस्रजित् सहस्रसंख्याकस्य धनस्यजेता सोमः पवते पूयते यंदेवासोदेवाश्चक्रिरेकृतवन्तः । किमर्थं पीतये पानाय कीदृशं सोमं मदं मदकरं स्वादिष्ठं स्वादुतमं द्रप्सं रसात्मकं अरुणं अरुणवर्णं मयोभुवं सुखस्यभावयितारं ॥ ४ ॥