प्र राजा॒ वाचं᳚ ज॒नय᳚न्नसिष्यदद॒पो वसा᳚नो अ॒भि गा इ᳚यक्षति ।
गृ॒भ्णाति᳚ रि॒प्रमवि᳚रस्य॒ तान्वा᳚ शु॒द्धो दे॒वाना॒मुप᳚ याति निष्कृ॒तम् ॥
गृ॒भ्णाति᳚ रि॒प्रमवि᳚रस्य॒ तान्वा᳚ शु॒द्धो दे॒वाना॒मुप᳚ याति निष्कृ॒तम् ॥
पदपाठः (Word-by-word)
प्र । राजा᳚ । वाच᳚म् । ज॒नय᳚न् । अ॒सि॒स्य॒द॒त् । अ॒पः । वसा᳚नः । अ॒भि । गाः । इ॒य॒क्ष॒ति॒ ।
गृ॒भ्णाति᳚ । रि॒प्रम् । अविः᳚ । अ॒स्य॒ । तान्वा᳚ । शु॒द्धः । दे॒वाना᳚म् । उप᳚ । या॒ति॒ । निः॒॑कृ॒तम् ॥
गृ॒भ्णाति᳚ । रि॒प्रम् । अविः᳚ । अ॒स्य॒ । तान्वा᳚ । शु॒द्धः । दे॒वाना᳚म् । उप᳚ । या॒ति॒ । निः॒॑कृ॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
राजा राजमानोयं सोमोभिषूयमाणः सन् वाचं शब्दं जनयन् उत्पादयन् असिष्यदत्प्र स्यन्दते । तथा अपोवसतीवरीर्वसानः आच्छादयन् गाः स्तुतीः अभि इयक्षति अभिग्च्छति इयक्षतिर्गतिकर्मसुपठितः अस्यसोमस्य रिप्रं अनुपादेयत्वेन पापरूपं अभिषुतवल्लीशकला- दिरूपं अविरविरोमनिर्मितं दशापवित्रं तान्वा स्वीयेन वस्त्रेण गृभ्णाति गृह्णाति शोधन- समये पश्चात् शुद्धोदेवानां निष्कृतं संस्कृतंस्थानं उपयाति उपगच्छति ॥ १ ॥