ए॒तानि᳚ सोम॒ पव᳚मानो अस्म॒युः स॒त्यानि᳚ कृ॒ण्वन्द्रवि᳚णान्यर्षसि ।
ज॒हि शत्रु᳚मन्ति॒के दू᳚र॒के च॒ य उ॒र्वीं गव्यू᳚ति॒मभ᳚यं च नस्कृधि ॥
ज॒हि शत्रु᳚मन्ति॒के दू᳚र॒के च॒ य उ॒र्वीं गव्यू᳚ति॒मभ᳚यं च नस्कृधि ॥
पदपाठः (Word-by-word)
ए॒तानि᳚ । सो॒म॒ । पव᳚मानः । अ॒स्म॒॑युः । स॒त्यानि᳚ । कृ॒ण्वन् । द्रवि᳚णानि । अ॒र्ष॒सि॒ ।
ज॒हि । शत्रु᳚म् । अ॒न्ति॒के । दू॒र॒के । च॒ । यः । उ॒र्वीम् । गव्यू᳚तिम् । अभ᳚यम् । च॒ । नः॒ । कृ॒धि॒ ॥
ज॒हि । शत्रु᳚म् । अ॒न्ति॒के । दू॒र॒के । च॒ । यः । उ॒र्वीम् । गव्यू᳚तिम् । अभ᳚यम् । च॒ । नः॒ । कृ॒धि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम एतानि पूर्वमंत्रोक्तानि गवादीनि द्रविणानि सन्यानि कृण्वन् कुर्वन् पवमा- नः पूयमानः अर्षसि पवसे जह्जिच शत्रुं योस्मच्छत्रुरंतिके समीपे दूरके अत्यंतदूरे देशेच वर्तते तं जहि । तथा उर्वीं गव्यूतिं विस्तीर्णं मार्गं अभयं नोस्माकं कृधि कुरु ॥ ५ ॥
अचोदसइति पंचर्चंद्वादशंसूक्तं ऋष्याद्याः पूर्ववत् । अचोदसइत्यनुक्रान्तम् । गतोविनि- योगः ।