सप्तमं मण्डलम् - सूक्तम् 8

7 ऋचः

ऋषिः: वसिष्ठः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 7.8 - सम्पूर्णम्

1 / 7
ऋक्: 7.8.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.8.1 समानपद
इ॒न्धे राजा॒ सम॒र्यो नमो᳚भि॒र्यस्य॒ प्रती᳚क॒माहु᳚तं घृ॒तेन᳚ ।
नरो᳚ ह॒व्येभि᳚रीळते स॒बाध॒ आग्निरग्र᳚ उ॒षसा᳚मशोचि ॥
▶ पदपाठः (Word-by-word)
इ॒न्धे । राजा᳚ । सम् । अ॒र्यः । नमः᳚॑भिः । यस्य᳚ । प्रती᳚कम् । आ॑हु᳚तम् । घृ॒तेन᳚ ।
नरः᳚ । ह॒व्येभिः᳚ । ई॒ळ॒ते॒ । स॒॑बाधः᳚ । आ । अ॒ग्निः । अग्रे᳚ । उ॒षसा᳚म् । अ॒शो॒चि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

राजा दीप्तः अर्यःस्वामी हविषां प्रेरकोवाग्निः नमोभिः स्तुतिभिः सह समिन्धे समिध्यते । यस्याग्नेः प्रतीकं रूपं घृतेनाहुतं भवति । यं च नरोस्मदीयाः सबाधः संश्लिष्टाः संजातबाधावा हव्येभिर्हव्यैः सार्धं ईळते स्तुवन्ति सोग्निरुषसामग्रे आ अशोचि आ दीप्यते ॥ १ ॥

7.8.2
अ॒यमु॒ ष्य सुम᳚हा{4} अवेदि॒ होता᳚ म॒न्द्रो मनु᳚षो य॒ह्वो अ॒ग्निः ।
वि भा अ᳚कः ससृजा॒नः पृ᳚थि॒व्यां कृ॒ष्णप᳚वि॒रोष᳚धीभिर्ववक्षे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ऊं॒ इति᳚ । स्यः । सु॑म᳚हान् । अ॒वे॒दि॒ । होता᳚ । म॒न्द्रः । मनु᳚षः । य॒ह्वः । अ॒ग्निः ।
वि । भाः । अ॒क॒रित्य᳚कः । स॒सृ॒जा॒नः । पृ॒थि॒व्याम् । कृ॒ष्ण॑प᳚विः । ओष᳚धीभिः । व॒व॒क्षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्यः सोयं होता देवानामाह्वाता मन्द्रो मदयिता यह्वो महानग्निः मनुषो मनुष्यस्य सुमहानवेदि सुमहत्त्वेन प्रज्ञायते । अपि च सोयं भाः दीप्तिः व्यकः विकरोति अन्तरिक्षे । किं च सोयं कृष्णपविः कृष्णमार्गोग्निः पृथिव्यां ससृजानः सृज्यमानः सन्नोषधीभिर्ववक्षे वर्धयते ॥ २ ॥

7.8.3
कया᳚ नो अग्ने॒ वि व᳚सः सुवृ॒क्तिं कामु᳚ स्व॒धामृ᳚णवः श॒स्यमा᳚नः ।
क॒दा भ᳚वेम॒ पत᳚यः सुदत्र रा॒यो व॒न्तारो᳚ दु॒ष्टर᳚स्य सा॒धोः ॥
▶ पदपाठः (Word-by-word)
कया᳚ । नः॒ । अ॒ग्ने॒ । वि । व॒सः॒ । सु॒॑वृ॒क्तिम् । काम् । ऊं॒ इति᳚ । स्व॒धाम् । ऋ॒ण॒वः॒ । श॒स्यमा᳚नः ।
क॒दा । भ॒वे॒म॒ । पत᳚यः । सु॒॑द॒त्र॒ । रा॒यः । व॒न्तारः᳚ । दु॒स्तर᳚स्य । सा॒धोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं कया स्वधया हविषा नोस्माकं सुवृक्तिं स्तुतिं विवसः व्याप्नुषे आच्छादयसिवा । कामु कांच स्वधां शस्यमानः स्तूयमानः त्वं ऋणवः प्राप्नुयाः हे सुदत्र शोभनदानाग्ने तथा च यास्कः-सुदत्रः कल्याणदानइति । वयं कदा दुष्टरस्य शत्रुभिः दुर्हिंसकस्य साधोःसमीची- नस्य रायो धनस्य पतयः स्वामिनो भवेम । वन्तारः संभक्तारश्च कदा भवेम ॥ ३ ॥

7.8.4
प्रप्रा॒यम॒ग्निर्भ᳚र॒तस्य᳚ शृण्वे॒ वि यत्सूर्यो॒ न रोच᳚ते बृ॒हद्भाः ।
अ॒भि यः पू॒रुं पृत᳚नासु त॒स्थौ द्यु᳚ता॒नो दैव्यो॒ अति᳚थिः शुशोच ॥
▶ पदपाठः (Word-by-word)
प्र॑प्र᳚ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य᳚ । शृ॒ण्वे॒ । वि । यत् । सूर्यः᳚ । न । रोच᳚ते । बृ॒हत् । भाः ।
अ॒भि । यः । पू॒रुम् । पृत᳚नासु । त॒स्थौ । द्यु॒ता॒नः । दैव्यः᳚ । अति᳚थिः । शु॒शो॒च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं प्रसिद्धोग्निः भरतस्य यजमानस्य मम प्रप्र अत्यन्तं श्रृण्वे प्रथितोभवति । कदेत्यत्राह यद्यदा सूर्योन सूर्यइव बृहद्भाः बृहद्भासमानो विरोचते प्रकाशते । किं च योग्निः पृतनासु संग्रामेषु पूरुं पुरुनामकमसुरं अभितस्थौ अभिबभूव । सोयं द्युता दीप्यमानो दैव्योतिथिः देवानामतिथिवत्पूज्यःसन् शुचोच जज्वाल ॥ ४ ॥

7.8.5 समानपद
अस॒न्नित्त्वे आ॒हव᳚नानि॒ भूरि॒ भुवो॒ विश्वे᳚भिः सु॒मना॒ अनी᳚कैः ।
स्तु॒तश्चि᳚दग्ने शृण्विषे गृणा॒नः स्व॒यं व᳚र्धस्व त॒न्वं᳚ सुजात ॥
▶ पदपाठः (Word-by-word)
अस᳚न् । इत् । त्वे इति᳚ । आ॒॑हव᳚नानि । भूरि᳚ । भुवः᳚ । विश्वे᳚भिः । सु॒॑मनाः᳚ । अनी᳚कैः ।
स्तु॒तः । चि॒त् । अ॒ग्ने॒ । शृ॒ण्वि॒षे॒ । गृ॒णा॒नः । स्व॒यम् । व॒र्ध॒स्व॒ । त॒न्व᳚म् । सु॒॑जा॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वे त्वयि आहवनानि हवींषि आहुतयोवा भूरि बहूनि असन्नित् भवन्त्येव । त्वं च विश्वेभिर्विश्वैरनीकैस्तेजोभिः त्वद्विभूतिभिः अग्निभिर्वा सह सुमनाः भुवोभव । हे अग्ने स्तुतश्चित् स्तोतुः स्तौतीतिस्तुत स्तोत्रं श्रृण्विषे श्रृणु हे सुजात कल्याण प्रादुर्भावाग्ने गृणानः स्तुयमानस्त्वं स्वयं स्वयमेव तन्वं स्वांतनुं मम तनुं वा वर्धस्व वर्धयस्व ॥ ५ ॥

7.8.6
इ॒दं वचः᳚ शत॒साः संस᳚हस्र॒मुद॒ग्नये᳚ जनिषीष्ट द्वि॒बर्हा᳚ः ।
शं यत्स्तो॒तृभ्य᳚ आ॒पये॒ भवा᳚ति द्यु॒मद᳚मीव॒चात᳚नं रक्षो॒हा ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । वचः᳚ । श॒त॒॑साः । सम्॑स᳚हस्रम् । उत् । अ॒ग्नये᳚ । ज॒नि॒षी॒ष्ट॒ । द्वि॒॑बर्हाः᳚ ।
शम् । यत् । स्तो॒तृ॑भ्यः᳚ । आ॒पये᳚ । भवा᳚ति । द्यु॒॑मत् । अ॒मी॒व॒॑चात᳚नम् । र॒क्षः॒॑हा ॥
▶ सायणभाष्यम् (Sayana Commentary)

शतसाः गवां शतस्य संभक्ता संसहस्रं गवां सहस्रेणच संयुतः द्विबर्हा द्वाभ्यां विद्याकर्मभ्यां बृहन् वसिष्ठाः द्वयोः स्थानयोर्द्युलोकयोः महान्वा तथा च यास्कः-द्विबर्हा द्वयोः स्थानयोः परिवृढइति । इदं वचः इदं स्तोत्रं अग्नये उज्जनिषीष्ट उदजीजनत् । किंतदित्यतआह यद्वचः द्युमत् दीप्तिमत् यशस्करमित्यर्थः अमीवचातनं रोगाणां निवारकं रक्षोहा रक्षसां हंतृ च स्तोतृभ्यः आपये तद्बंधवे पुत्रादिकायापि शं सुखदं भवाति भवेत् ॥ ६ ॥

7.8.7
नू त्वाम᳚ग्न ईमहे॒ वसि᳚ष्ठा ईशा॒नं सू᳚नो सहसो॒ वसू᳚नाम् ।
इषं᳚ स्तो॒तृभ्यो᳚ म॒घव᳚द्भ्य आनड्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि᳚ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । वसू᳚नाम् ।
इष᳚म् । स्तो॒तृ॑भ्यः᳚ । म॒घव᳚त्॑भ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमृक् प्रागेव व्याख्याता ॥ ७ ॥

अबोधिजारइति षळृचं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं अबोधिषळित्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तमध्ये उक्तोविनियोगः ।