श्रवणम्

7.8.4
प्रप्रा॒यम॒ग्निर्भ᳚र॒तस्य᳚ शृण्वे॒ वि यत्सूर्यो॒ न रोच᳚ते बृ॒हद्भाः ।
अ॒भि यः पू॒रुं पृत᳚नासु त॒स्थौ द्यु᳚ता॒नो दैव्यो॒ अति᳚थिः शुशोच ॥
▶ पदपाठः (Word-by-word)
प्र॑प्र᳚ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य᳚ । शृ॒ण्वे॒ । वि । यत् । सूर्यः᳚ । न । रोच᳚ते । बृ॒हत् । भाः ।
अ॒भि । यः । पू॒रुम् । पृत᳚नासु । त॒स्थौ । द्यु॒ता॒नः । दैव्यः᳚ । अति᳚थिः । शु॒शो॒च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं प्रसिद्धोग्निः भरतस्य यजमानस्य मम प्रप्र अत्यन्तं श्रृण्वे प्रथितोभवति । कदेत्यत्राह यद्यदा सूर्योन सूर्यइव बृहद्भाः बृहद्भासमानो विरोचते प्रकाशते । किं च योग्निः पृतनासु संग्रामेषु पूरुं पुरुनामकमसुरं अभितस्थौ अभिबभूव । सोयं द्युता दीप्यमानो दैव्योतिथिः देवानामतिथिवत्पूज्यःसन् शुचोच जज्वाल ॥ ४ ॥