घृ॒तव᳚र्तनिः प॒विभी᳚ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति᳚र्वा॒जिनी᳚वान् ॥
पदपाठः (Word-by-word)
घृ॒त॑व᳚र्तनिः । प॒वि॑भिः᳚ । रु॒चा॒नः । इ॒षाम् । वो॒ळ्हा । नृ॒॑पतिः᳚ । वा॒जिनी᳚॑वान् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ वां रथोवृषभिः युवभिरश्वैः युक्तः सन्नायातु यज्ञमस्मदीयं कीदृशोरथः रथोविशेष्यते रोदसी द्यावापृथिव्यौ बद्बधानोबाध- मानः हिरण्ययः हिरण्मयः घृतवर्तनिः घृतमुदकं वर्तन्यां यस्य तादृशः पविभीरथनेमिभिः मधुपात्रैर्वा रुचानोदीप्यमान इषां वोह्ळा यजमानैर्दत्तानां हविषां वाहकः दातव्यानां वान्नानां वोह्ळा नृपतिः नृणां यजमानानां स्वामी वाजिनीवानन्नवान् ॥ १ ॥