यु॒वं भु॒ज्युमव᳚विद्धं समु॒द्र उदू᳚हथु॒रर्ण᳚सो॒ अस्रि᳚धानैः ।
प॒त॒त्रिभि᳚रश्र॒मैर᳚व्य॒थिभि᳚र्दं॒सना᳚भिरश्विना पा॒रय᳚न्ता ॥
प॒त॒त्रिभि᳚रश्र॒मैर᳚व्य॒थिभि᳚र्दं॒सना᳚भिरश्विना पा॒रय᳚न्ता ॥
पदपाठः (Word-by-word)
यु॒वम् । भु॒ज्युम् । अव᳚॑विद्धम् । स॒मु॒द्रे । उत् । ऊ॒ह॒थुः॒ । अर्ण᳚सः । अस्रि᳚धानैः ।
प॒त॒त्रि॑भिः᳚ । अ॒श्र॒मैः । अ॒व्य॒थि॑भिः᳚ । दं॒सना᳚भिः । अ॒श्वि॒ना॒ । पा॒रय᳚न्ता ॥
प॒त॒त्रि॑भिः᳚ । अ॒श्र॒मैः । अ॒व्य॒थि॑भिः᳚ । दं॒सना᳚भिः । अ॒श्वि॒ना॒ । पा॒रय᳚न्ता ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना अश्विनौ युवं भुज्युं एतन्नामकं अवविद्धं विक्षिप्तं सखिभिः समुद्रे तन्मध्ये निमग्नं अर्णसः उदकादुदूहथुः किं कुर्वन्ताविति तदुच्यते अस्रिधानैः अक्षीयमाणैः अश्रमैः अव्यथिभिश्च पतत्रिभिः पतनवद्भिः गमनवद्भीरथेनियुक्तैरश्वैः दंसनाभिः शारीरैः कर्म- भिश्च पारयन्ता पारयन्तौ समुद्रे अर्णस उदूहथुरिति । नासत्याभुज्युमूहथुःपतङ्गैरितित्द्युक्तम् ॥ ७ ॥