सप्तमं मण्डलम् - सूक्तम् 50

4 ऋचः

ऋषिः: वसिष्ठः देवता: मित्रावरुणौ छन्दः: जगती

सूक्तम् 7.50 - सम्पूर्णम्

1 / 4
ऋक्: 7.50.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
7.50.1
आ मां मि᳚त्रावरुणे॒ह र᳚क्षतं कुला॒यय᳚द्वि॒श्वय॒न्मा न॒ आ ग᳚न् ।
अ॒ज॒का॒वं दु॒र्दृशी᳚कं ति॒रो द᳚धे॒ मा मां पद्ये᳚न॒ रप᳚सा विद॒त्त्सरु᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । माम् । मि॒त्रा॒व॒रु॒णा॒ । इ॒ह । र॒क्ष॒त॒म् । कु॒ला॒यय᳚त् । वि॒॑श्वय᳚त् । मा । नः॒ । आ । ग॒न् ।
अ॒ज॒का॒॑वम् । दुः॒॑दृशी᳚कम् । ति॒रः । द॒धे॒ । मा । माम् । पद्ये᳚न । रप᳚सा । वि॒द॒त् । त्सरुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणा मित्रावरुणौ युवां इहास्मिन्लोके मां आरक्षतं आभिमुख्येन पालयतं कुलाययत् कुलायं स्थानं तत्कुर्वन् विश्वयत् विशेषेण वर्धमानं विषं नोस्मान् आ आभिमुख्येन मागन् मागमत् मागच्छतु तथा अजकावं अजकानाम रोगविशेषः तद्वत् दुर्दृशीकं दुर्दर्शनं विषं तिरोदधे तोरोधत्तां नश्यत्वित्यर्थः तथा त्सरुः छड्मगामी जिह्मगः सर्पइत्यर्थः मां पद्येन पादभवेन रपसा रपिः शब्दकर्मा शब्देन माविदत् माजानतु ॥ १ ॥

7.50.2
यद्वि॒जाम॒न्परु᳚षि॒ वन्द᳚नं॒ भुव᳚दष्ठी॒वन्तौ॒ परि᳚ कु॒ल्फौ च॒ देह᳚त् ।
अ॒ग्निष्टच्छोच॒न्नप᳚ बाधतामि॒तो मा मां पद्ये᳚न॒ रप᳚सा विद॒त्त्सरु᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । वि॒॑जाम᳚न् । परु᳚षि । वन्द᳚नम् । भुव᳚त् । अ॒ष्ठी॒वन्तौ᳚ । परि᳚ । कु॒ल्फौ । च॒ । देह᳚त् ।
अ॒ग्निः । तत् । शोच᳚न् । अप᳚ । बा॒ध॒ता॒म् । इ॒तः । मा । माम् । पद्ये᳚न । रप᳚सा । वि॒द॒त् । त्सरुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वन्दनं एतत्संज्ञकं यद्विषं विजामन् विविधजन्मनि परुषि वृक्षादीनां पर्वणि भुवत् उद्भवेत् यच्चविषं अष्ठीवन्तौ जानुनी कुल्फौ गुप्तौच परिदेहत् दिहउपचये उपचितंकुर्यात् अग्निर्देवः शोचन् दीप्यमानः सन् इतोस्माज्जनात् तद्विषं अपबाधतां अपहन्तु शिष्टं व्याख्यातं ॥ २ ॥

7.50.3
यच्छ᳚ल्म॒लौ भव᳚ति॒ यन्न॒दीषु॒ यदोष᳚धीभ्य॒ः परि॒ जाय᳚ते वि॒षम् ।
विश्वे᳚ दे॒वा निरि॒तस्तत्सु᳚वन्तु॒ मा मां पद्ये᳚न॒ रप᳚सा विद॒त्त्सरु᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । श॒ल्म॒लौ । भव᳚ति । यत् । न॒दीषु᳚ । यत् । ओष᳚धीभ्यः । परि᳚ । जाय᳚ते । वि॒षम् ।
विश्वे᳚ । दे॒वाः । निः । इ॒तः । तत् । सु॒व॒न्तु॒ । मा । माम् । पद्ये᳚न । रप᳚सा । वि॒द॒त् । त्सरुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्विषं शल्मलौ एतत्संज्ञके वृक्षेभवति तद्विषं नदीषु तत्रस्थासु अप्सु प्रादुर्भवति परीति पंचम्यर्थानुवादी ओषधीभ्यः सकाशाद्यद्विषं जायते उत्पद्यते विश्वे सर्वे देवाः तद्विषं इतोस्माज्जनाद्देशाद्वा निः सुवन्तु निःशेषेण प्रेरयन्तु मामामितिशिष्टं व्याख्यातं ॥ ३ ॥

7.50.4
याः प्र॒वतो᳚ नि॒वत᳚ उ॒द्वत᳚ उद॒न्वती᳚रनुद॒काश्च॒ याः ।
ता अ॒स्मभ्यं॒ पय᳚सा॒ पिन्व᳚मानाः शि॒वा दे॒वीर᳚शिप॒दा भ᳚वन्तु॒ सर्वा᳚ न॒द्यो᳚ अशिमि॒दा भ᳚वन्तु ॥
▶ पदपाठः (Word-by-word)
याः । प्र॒॑वतः᳚ । नि॒॑वतः᳚ । उ॒त्॑वतः᳚ । उ॒द॒न्॑वतीः᳚ । अ॒नु॒द॒काः । च॒ । याः ।
ताः । अ॒स्मभ्य᳚म् । पय᳚सा । पिन्व᳚मानाः । शि॒वाः । दे॒वीः । अ॒शि॒प॒दाः । भ॒व॒न्तु॒ । सर्वाः᳚ । न॒द्यः᳚ । अ॒शि॒मि॒दाः । भ॒व॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यानद्यः प्रवतः प्रवणदेशे गच्छंत्यः या निवतः निम्नदेशे गच्छन्त्यः या उद्वतः उन्नतदेशेगच्छन्त्यः उदन्वतीः उदकवत्यः अनुदकाश्च उप- करहिताश्च यानद्यः यान्ति पयसोदकेन पिन्वमानाः विश्वमाप्याययन्त्यः देवीर्देव्योद्योतमानाः तास्तादृश्योनद्यः अस्मभ्यं अशिपदाः शिपदंनाम रोगविशेषः तदकुर्वत्यः सत्यः शिवाः कल्याण्योभवन्तु अपिच सर्वास्तानद्यः अशिमिदाः शिमिर्वधकर्मा अहिंसाप्रदाभवन्तु ॥ ४ ॥

आदित्यानामिति तृचमष्टादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभंआदित्यदेवताकं अनुक्रम्यतेचाअदित्यानां तृचमादित्यं त्विति । गतः सूक्त- विनियोगः । आदित्यदेवताकेपशौ आदित्यानामवसे ति वपायाअनुवाक्या सूत्रितंच-आदित्यानामवसानूतनेनेमागिरआदित्येभ्यइति आदित्यग्रहस्यैषानुवाक्या सूत्रितं च-आदित्यानामवसानूतनेन होतायक्षदादित्यानिति ।