विश्वे᳚ चि॒द्धि त्वा᳚ वि॒हव᳚न्त॒ मर्ता᳚ अ॒स्माक॒मिच्छृ᳚णुहि विश्वमिन्व ॥
पदपाठः (Word-by-word)
विश्वे᳚ । चि॒त् । हि । त्वा॒ । वि॒॑हव᳚न्त । मर्ताः᳚ । अ॒स्माक᳚म् । इत् । शृ॒णु॒हि॒ । वि॒श्व॒म्॑इ॒न्व॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं विद्वान् जानन् नोस्माकं ब्रह्म स्तोत्रं उपयाहि ते तव हरयोश्वाश्चार्वांचोस्मदभिमुखा युक्ताः सन्तु । हे विश्वमिन्व विश्वप्रीणयि- तरिन्द्र त्वा त्वां विश्वे सर्वे मर्ता मनुष्याः चिद्धि यद्यपि विहवंत पृथ्क् हवन्ते तथाप्यस्माकमित् अस्माकमेव हवं शृणुहि शृणु ॥ १ ॥