सप्तमं मण्डलम् - सूक्तम् 3

10 ऋचः

ऋषिः: वसिष्ठः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 7.3 - सम्पूर्णम्

1 / 10
ऋक्: 7.3.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
7.3.1
अ॒ग्निं वो᳚ दे॒वम॒ग्निभि᳚ः स॒जोषा॒ यजि᳚ष्ठं दू॒तम᳚ध्व॒रे कृ᳚णुध्वम् ।
यो मर्त्ये᳚षु॒ निध्रु᳚विरृ॒तावा॒ तपु᳚र्मूर्धा घृ॒तान्न᳚ः पाव॒कः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । वः॒ । दे॒वम् । अ॒ग्नि॑भिः᳚ । स॒॑जोषाः᳚ । यजि᳚ष्ठम् । दू॒तम् । अ॒ध्व॒रे । कृ॒णु॒ध्व॒म् ।
यः । मर्त्ये᳚षु । नि॑ध्रु᳚विः । ऋ॒त॑वा᳚ । तपुः᳚॑मूर्धा । घृ॒त॑अ᳚न्नः । पा॒व॒कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवाः वो यूयं देवं द्योतमानं अग्निभिरन्यैरग्निभिः सजोषाः सजोषसं सहितं द्वितीयार्थे प्रथमा यजिष्ठं यष्टृतममग्निं अध्वरे कौटिल्यरहिते यज्ञे दूतं कृणुध्वं कुरुत योग्निर्देवोपिसन् मर्त्येषु निध्रुविः नितरां ध्रुवस्तिष्ठति ऋतावा यज्ञवान् सत्यवान् वा तपुर्मूर्धा तापकतेजाः घृतान्नः पावकः शोधकश्च भवति ॥ १ ॥

7.3.2
प्रोथ॒दश्वो॒ न यव᳚से॑वि॒ष्यन्य॒दा म॒हः सं॒वर᳚णा॒द्व्यस्था᳚त् ।
आद᳚स्य॒ वातो॒ अनु᳚ वाति शो॒चिरध᳚ स्म ते॒ व्रज᳚नं कृ॒ष्णम᳚स्ति ॥
▶ पदपाठः (Word-by-word)
प्रोथ᳚त् । अश्वः᳚ । न । यव᳚से । अ॒वि॒ष्यन् । य॒दा । म॒हः । स॒म्॑वर᳚णात् । वि । अस्था᳚त् ।
आत् । अ॒स्य॒ । वातः᳚ । अनु᳚ । वा॒ति॒ । शो॒चिः । अध᳚ । स्म॒ । ते॒ । व्रज᳚नम् । कृ॒ष्णम् । अ॒स्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यवसे घासे अविष्यन् भक्षयन् प्रोथत् शद्बं कुर्वन् संचरन्वा अश्वोन अश्वइव महोमहतः संवरणान्निरोधात् दावरूपोग्निः यदा व्यस्थात् सततेषु वृक्षेषु वितिष्ठते आत् तदा अस्याग्नेः शोचिरर्चिरनुवातो वाति । अथ प्रत्यक्षस्तुतिः अधअनन्तरं हे अग्ने ते तव व्रजनं वर्त्म कृष्णमस्ति भवति स्मेतिपूरणः ॥ २ ॥

7.3.3
उद्यस्य᳚ ते॒ नव᳚जातस्य॒ वृष्णो॑ग्ने॒ चर᳚न्त्य॒जरा᳚ इधा॒नाः ।
अच्छा॒ द्याम᳚रु॒षो धू॒म ए᳚ति॒ सं दू॒तो अ᳚ग्न॒ ईय᳚से॒ हि दे॒वान् ॥
▶ पदपाठः (Word-by-word)
उत् । यस्य᳚ । ते॒ । नव᳚॑जातस्य । वृष्णः᳚ । अग्ने᳚ । चर᳚न्ति । अ॒जराः᳚ । इ॒धा॒नाः ।
अच्छ᳚ । द्याम् । अ॒रु॒षः । धू॒मः । ए॒ति॒ । सम् । दू॒तः । अ॒ग्ने॒ । ईय᳚से । हि । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नवजातस्य नवप्रादुर्भावस्य वृष्णोवर्षितुर्यस्य ते तव अजराः जरारहिताः ज्वालाः इधानाः समिध्यमानाः उञ्चर्न्त्युद्गच्छन्ति । अस्यअरुषः अरोचमानो धूमोद्यामच्छ दिवमभिएति अभिगच्छति । हे अग्ने त्वं दूतः सन् समीयसेहि संप्राप्नोषिच ॥ ३ ॥

7.3.4
वि यस्य᳚ ते पृथि॒व्यां पाजो॒ अश्रे᳚त्तृ॒षु यदन्ना᳚ स॒मवृ᳚क्त॒ जम्भै᳚ः ।
सेने᳚व सृ॒ष्टा प्रसि᳚तिष्ट एति॒ यवं॒ न द᳚स्म जु॒ह्वा᳚ विवेक्षि ॥
▶ पदपाठः (Word-by-word)
वि । यस्य᳚ । ते॒ । पृ॒थि॒व्याम् । पाजः᳚ । अश्रे᳚त् । तृ॒षु । यत् । अन्ना᳚ । स॒म्॑अवृ᳚क्त । जम्भैः᳚ ।
सेना᳚॑इव । सृ॒ष्टा । प्र॑सि᳚तिः । ते॒ । ए॒ति॒ । यव᳚म् । न । द॒स्म॒ । जु॒ह्वा᳚ । वि॒वे॒क्षि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यस्य दावरूपस्य ते तव पाजस्तेजः पृथिव्यां भूम्यां तृषु क्षिप्रं व्यश्रेत् विश्रयति यद्यदा अन्नानि काष्ठादीनि ज्ंभैर्दन्तैः ज्वालाभिरित्यर्थःसमवृक्त वृंक्ते खादति तथा सेनेव सृष्टा उद्युक्ता ते तव प्रसितिर्ज्वाला एति गच्छति । दस्म हे दर्शनीयाग्ने त्वं यवंन यवमिव जुह्वा ज्वालयाविवेक्षि काष्ठादीनि भक्षयसि व्याप्नोषि वा ॥ ४ ॥

7.3.5
तमिद्दो॒षा तमु॒षसि॒ यवि᳚ष्ठम॒ग्निमत्यं॒ न म᳚र्जयन्त॒ नरः᳚ ।
नि॒शिशा᳚ना॒ अति᳚थिमस्य॒ योनौ᳚ दी॒दाय᳚ शो॒चिराहु᳚तस्य॒ वृष्ण᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । दो॒षा । तम् । उ॒षसि᳚ । यवि᳚ष्ठम् । अ॒ग्निम् । अत्य᳚म् । न । म॒र्ज॒य॒न्त॒ । नरः᳚ ।
नि॒॑शिशा᳚नाः । अति᳚थिम् । अ॒स्य॒ । योनौ᳚ । दी॒दाय᳚ । शो॒चिः । आ॑हु᳚तस्य । वृष्णः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यविष्ठं युवतमं अतिथिं अतिथिवत्पूज्यं तमित् तमेवाग्निं दोषा दोषायां रात्रौउषसि वासरेपि तमेवास्याग्नेर्योनौ स्थाने आवहनीयायतने धिष्ण्ये वा निशिशानाः दीपयन्तो नरो मनुष्याः अत्यं सततगमनयुक्तं वोढारमश्वमिव मर्जयन्त परिचरन्ति । आहूतस्य च वृष्णः कामानां वर्षितुरग्नेस्तस्य शोचिर्ज्वाला दीदाय दीप्यते ॥ ५ ॥

7.3.6
सु॒सं॒दृक्ते᳚ स्वनीक॒ प्रती᳚कं॒ वि यद्रु॒क्मो न रोच᳚स उपा॒के ।
दि॒वो न ते᳚ तन्य॒तुरे᳚ति॒ शुष्म᳚श्चि॒त्रो न सूर॒ः प्रति᳚ चक्षि भा॒नुम् ॥
▶ पदपाठः (Word-by-word)
सु॒॑स॒न्दृक् । ते॒ । सु॒॑अ॒नी॒क॒ । प्रती᳚कम् । वि । यत् । रु॒क्मः । न । रोच᳚से । उ॒पा॒के ।
दि॒वः । न । ते॒ । त॒न्य॒तुः । ए॒ति॒ । शुष्मः᳚ । चि॒त्रः । न । सूरः᳚ । प्रति᳚ । च॒क्षि॒ । भा॒नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वनीक हेसुतेजस्काग्ने यद्यदा रुक्मोन सूर्यइव सुवर्णमिव वा उपाके अन्तिके विरोचसे विशेषेण दीप्यसे तदा ते तव प्रतीकं रूपमंगंवा सुसंदृक् सुसंदर्शनं भवति । किं च ते तव शुष्मो दिवोन्तरिक्षात् तन्यतुर्न अशनिरिव एति निर्गच्छति । चित्रोदर्शनीयः सूरोन् सूर्यइव भानुं स्वां दीप्तीं प्रतिचक्षि प्रदर्शयसि ॥ ६ ॥

7.3.7 समानपद
यथा᳚ व॒ः स्वाहा॒ग्नये॒ दाशे᳚म॒ परीळा᳚भिर्घृ॒तव᳚द्भिश्च ह॒व्यैः ।
तेभि᳚र्नो अग्ने॒ अमि᳚तै॒र्महो᳚भिः श॒तं पू॒र्भिराय᳚सीभि॒र्नि पा᳚हि ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । वः॒ । स्वाहा᳚ । अ॒ग्नये᳚ । दाशे᳚म । परि᳚ । इळा᳚भिः । घृ॒तव᳚त्॑भिः । च॒ । ह॒व्यैः ।
तेभिः᳚ । नः॒ । अ॒ग्ने॒ । अमि᳚तैः । महः᳚॑भिः । श॒तम् । पूः॒॑भिः । आय᳚सीभिः । नि । पा॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अग्नये अग्नस्य नेत्रे वः तुभ्यं स्वाहा स्वाहुतं हविः किं च यथा वयमिळाभिः गोविकारैः क्षीरादिभिः घृतवद्भिः घृतसहितैः हव्यैः पुरोडाशादिभिश्च दाशेम परिचरेम । तथा त्वमपि तेभिः प्रसिद्धैः अमितैः अपरिमितैः महोभिस्तेजोभिः शतमपरिमिताभिः आयसीभि- र्हिरण्मयीभिः रुक्मं अयइति हिरण्यनामसु पाठात् पूर्भिर्नगरीभिरेव नोस्मान् निपाहि नितरां रक्ष ॥ ७ ॥

7.3.8
या वा᳚ ते॒ सन्ति᳚ दा॒शुषे॒ अधृ᳚ष्टा॒ गिरो᳚ वा॒ याभि᳚र्नृ॒वती᳚रुरु॒ष्याः ।
ताभि᳚र्नः सूनो सहसो॒ नि पा᳚हि॒ स्मत्सू॒रीञ्ज᳚रि॒तॄञ्जा᳚तवेदः ॥
▶ पदपाठः (Word-by-word)
याः । वा॒ । ते॒ । सन्ति᳚ । दा॒शुषे᳚ । अधृ᳚ष्टाः । गिरः᳚ । वा॒ । याभिः᳚ । नृ॒॑वतीः᳚ । उ॒रु॒ष्याः ।
ताभिः᳚ । नः॒ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । नि । पा॒हि॒ । स्मत् । सू॒रीन् । ज॒रि॒तॄन् । जा॒त॒॑वे॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसःसूनो हे बलस्यपुत्र जातवेदाग्ने दाशुषे दाशुषस्ते तव यावा याश्च ज्वालाः सन्ति अधृष्टाः रक्षोभिरप्रधृषिताः गिरोवा गिरंश्च सन्ति याभिर्गीर्भिर्नृवतीः पुत्रवतीः प्रजा उरुष्याः रक्षेः ताभिरुभयीभिर्नोस्मान् स्मदिति प्रशस्तवचनः प्रशस्तान् सूरीन् हविषां प्रेरकान् जरि- तॄन् स्तोतॄंश्च निपाहि नितरां रक्ष ॥ ८ ॥

7.3.9
निर्यत्पू॒तेव॒ स्वधि᳚ति॒ः शुचि॒र्गात्स्वया᳚ कृ॒पा त॒न्वा॒३॒᳚ रोच᳚मानः ।
आ यो मा॒त्रोरु॒शेन्यो॒ जनि᳚ष्ट देव॒यज्या᳚य सु॒क्रतु᳚ः पाव॒कः ॥
▶ पदपाठः (Word-by-word)
निः । यत् । पू॒ता॑इ᳚व । स्व॑धि᳚तिः । शुचिः᳚ । गात् । स्वया᳚ । कृ॒पा । त॒न्वा᳚ । रोच᳚मानः ।
आ । यः । मा॒त्रोः । उ॒शेन्यः᳚ । जनि᳚ष्ट । दे॒व॒॑यज्या᳚य । सु॒॑क्रतुः᳚ । पा॒व॒कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा शुचिरग्निः स्वया स्वकीयया तन्वा ततया कृपा कृपया दीप्त्या रोचमानः पूतेवस्वधितिः तीक्ष्णीकृता स्वधितिरिव निर्गात् काष्ठा- न्निर्गच्छति तदानीं देवयज्याय भवति तदेव विशदयति योग्निः रुशेन्यः कमनीयः सुक्रतुः सुकर्मा पावकः शोधकश्च मात्रोररण्योः आज- निष्ट आजायत सदेवयज्यायभवतीति ॥ ९ ॥

7.3.10
ए॒ता नो᳚ अग्ने॒ सौभ᳚गा दिदी॒ह्यपि॒ क्रतुं᳚ सु॒चेत᳚सं वतेम ।
विश्वा᳚ स्तो॒तृभ्यो᳚ गृण॒ते च᳚ सन्तु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ᳚गा । दि॒दी॒हि॒ । अपि᳚ । क्रतु᳚म् । सु॒॑चेत᳚सम् । व॒ते॒म॒ ।
विश्वा᳚ । स्तो॒तृ॑भ्यः᳚ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने एता एतानि परिदृश्यमानानि सौभगा सौभगानि शोभनानि धनानि नोस्मभ्यं दिदीहि दीपय देहिवा अपि अपिच क्रतुं कर्म यज्ञानां कर्तारं वा सुचेतसं शोभनप्रज्ञायुक्तं सुप्रज्ञानं पुत्रं वा वतेम संभजेमहि । वनतेः संभजनार्थस्यवर्णान्तरागमेसतिरूपं विश्वा विश्वानि धनानि स्तोतृभ्य उद्गातृभ्यो गृणते शंसतेच सन्तु यूयं त्वत्परिवाराश्च सर्वे यूयं नोस्मान् स्वस्तिभिः क्षेमैः सदा सर्वदा पात रक्षत ॥ १० ॥

प्रवःशुक्रायेति दशर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं प्रवइत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तमध्ये द्वितीयेनोक्तः सूक्तविनियोगः । एकादशिनआग्नेयेपशौ प्रवः शुक्रायेत्येषा वपाया याज्या सूत्रितं च –प्रवःशुक्रायभानवेभरध्वंयथाविप्रस्यमनुषोहविर्भि- रिति ।