सप्तमं मण्डलम् - सूक्तम् 26

5 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 7.26 - सम्पूर्णम्

1 / 5
ऋक्: 7.26.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
7.26.1
न सोम॒ इन्द्र॒मसु᳚तो ममाद॒ नाब्र᳚ह्माणो म॒घवा᳚नं सु॒तासः᳚ ।
तस्मा᳚ उ॒क्थं ज᳚नये॒ यज्जुजो᳚षन्नृ॒वन्नवी᳚यः शृ॒णव॒द्यथा᳚ नः ॥
▶ पदपाठः (Word-by-word)
न । सोमः᳚ । इन्द्र᳚म् । असु᳚तः । म॒मा॒द॒ । न । अब्र᳚ह्माणः । म॒घ॑वा᳚नम् । सु॒तासः᳚ ।
तस्मै᳚ । उ॒क्थम् । ज॒न॒ये॒ । यत् । जुजो᳚षत् । नृ॒॑वत् । नवी᳚यः । शृ॒णव᳚त् । यथा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघवानं धनवन्तमिन्द्रमसुतोन अभिषुतः सोमोन ममाद न तर्पयति सुतासोभिषुताः अपि सोमा अब्रह्माणः स्तोत्रहीनाः न ममदुः ममा- देत्येतदाख्यातं बहुवचनान्ततया विपरिणतं सदत्रसंबध्यते अतएव त्रिष्वपि सवनेषु पावमानैः स्तोत्रैः स्तुताएव सोमाहूयन्ते । अपि च नोस्मदीयं यदुक्थं इन्द्रोजुजोषत् सेवेत यथा च नृवत् राजेव आदरेण शृणवत् शृणुयात् तथा नवीयोनवतरमुक्थं शस्त्रं तस्माइन्द्राय जनये पठामीत्यर्थः ॥ १ ॥

7.26.2
उ॒क्थौ᳚क्थे॒ सोम॒ इन्द्रं᳚ ममाद नी॒थेनी᳚थे म॒घवा᳚नं सु॒तासः᳚ ।
यदीं᳚ स॒बाधः᳚ पि॒तरं॒ न पु॒त्राः स᳚मा॒नद᳚क्षा॒ अव᳚से॒ हव᳚न्ते ॥
▶ पदपाठः (Word-by-word)
उ॒क्थे॑उ᳚क्थे । सोमः᳚ । इन्द्र᳚म् । म॒मा॒द॒ । नी॒थे॑नी᳚थे । म॒घ॑वा᳚नम् । सु॒तासः᳚ ।
यत् । ई॒म् । स॒॑बाधः᳚ । पि॒तर᳚म् । न । पु॒त्राः । स॒मा॒न॑द᳚क्षाः । अव᳚से । हव᳚न्ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यस्मात् उक्थेउक्थे शस्त्रेशस्त्रे क्रियमाणे सोमोमघवानमिन्द्रं ममाद मादयति नीथेनीथे स्तोत्रेस्तोत्रे क्रियमाणे सुतासोभिषुताः सोमाः मादयन्ति तस्मादीमेः नमिन्द्रं सबाधः परस्परं मिलिताः समानदक्षाः समानोप्साहा ऋत्विजः । पुत्राः पितरं न पितरमिव अवसे तर्प- णाय स्वरक्षणाय वा हवन्ते शस्त्रैः स्तोत्रैश्च स्तवन्ति ॥ २ ॥

7.26.3
च॒कार॒ ता कृ॒णव᳚न्नू॒नम॒न्या यानि᳚ ब्रु॒वन्ति᳚ वे॒धसः᳚ सु॒तेषु᳚ ।
जनी᳚रिव॒ पति॒रेकः᳚ समा॒नो नि मा᳚मृजे॒ पुर॒ इन्द्र॒ः सु सर्वा᳚ः ॥
▶ पदपाठः (Word-by-word)
च॒कार᳚ । ता । कृ॒णव᳚त् । नू॒नम् । अ॒न्या । यानि᳚ । ब्रु॒वन्ति᳚ । वे॒धसः᳚ । सु॒तेषु᳚ ।
जनीः᳚॑इव । पतिः᳚ । एकः᳚ । स॒मा॒नः । नि । म॒मृ॒जे॒ । पुरः᳚ । इन्द्रः᳚ । सु । सर्वाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेधसः स्तोत्राणां विधातारः सुतेषु अभिषुतेषु सोमेषु यानि कर्माणि ब्रुवन्ति ता तानि वृत्रवधादीनि कर्माणीन्द्रःअ पूर्वस्मिन्काले चकार नूनम् । संप्रति अन्या अन्यान्यपि कर्माणि कृणवत् कुर्यात् । अपि च सइन्द्रः सर्वाः पुरः शत्रुनगरीः समानः समवृत्तिः एकः असहायः पति- जनीरिव जायाइव सु निमामृजे सम्यगशोधयेत् ॥ ३ ॥

7.26.4
ए॒वा तमा᳚हुरु॒त शृ᳚ण्व॒ इन्द्र॒ एको᳚ विभ॒क्ता त॒रणि᳚र्म॒घाना᳚म् ।
मि॒थ॒स्तुर᳚ ऊ॒तयो॒ यस्य᳚ पू॒र्वीर॒स्मे भ॒द्राणि᳚ सश्चत प्रि॒याणि᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । तम् । आ॒हुः॒ । उ॒त । शृ॒ण्वे॒ । इन्द्रः᳚ । एकः᳚ । वि॒॑भ॒क्ता । त॒रणिः᳚ । म॒घाना᳚म् ।
मि॒थः॒॑तुरः᳚ । ऊ॒तयः᳚ । यस्य᳚ । पू॒र्वीः । अ॒स्मे इति᳚ । भ॒द्राणि᳚ । स॒श्च॒त॒ । प्रि॒याणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येन्द्रस्य मिथः तुरो बाधनाः संश्लिष्टावा पूर्वीः पूर्व्योबह्व्यः ऊतयो रक्षाः सन्ति तं एव एवमुक्तगुणमाहुः पूर्वे ऋषयः । उतापिचाद्यापि सइन्द्रो मघानां मंहनीयानां धनानां विभक्ता दातेति एको मुख्यः तरणिरापदस्तारयितेति शृण्वे श्रूयते तस्य च प्रसादादस्मे अस्मान् भद्राणि मंगलानि प्रियाणि कल्याणानि सश्चत सेवन्तां ॥ ४ ॥

7.26.5
ए॒वा वसि᳚ष्ठ॒ इन्द्र᳚मू॒तये॒ नॄन्कृ᳚ष्टी॒नां वृ᳚ष॒भं सु॒ते गृ᳚णाति ।
स॒ह॒स्रिण॒ उप᳚ नो माहि॒ वाजा᳚न्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒व । वसि᳚ष्ठः । इन्द्र᳚म् । ऊ॒तये᳚ । नॄन् । कृ॒ष्टी॒नाम् । वृ॒ष॒भम् । सु॒ते । गृ॒णा॒ति॒ ।
स॒ह॒स्रिणः᳚ । उप᳚ । नः॒ । मा॒हि॒ । वाजा᳚न् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसिष्ठोनॄन् । नृणां षष्ठ्यर्थे द्वितीया । ऊतये रक्षायै कृष्टीनां प्रजानां वृषभं कामानां वर्षितारमिन्द्रं सुते अभिषुते सति एव एवं पूर्वोक्तप्र- कारेण गृणाति स्तौति । अथ प्रत्यक्षस्तुतिः हे इन्द्र नोस्मभ्यं सहस्रिणः सहस्रसंख्याकान् वाजान् अन्नान्युपमाहि प्रयच्छेत्यर्थः । स्पष्ट- मन्यत् ॥ ५ ॥

इन्द्रं नरइति पंचर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं इन्द्रंनरइत्यनुक्रान्तं महव्रते निष्केवल्य एतत्सूक्तं उक्तं तृतीयत्वेनेन्द्रेपशौ वपापुरोडाशहविषां आद्यास्तिस्रः क्रमेणानुवाक्याः । सूत्रितं च-इन्द्रंनरोनेमधिताहवन्तउरुंनोलोकमनुनेषिविद्वानिति ।