दधा᳚ति के॒तुमु॒भय᳚स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि᳚णं सु॒कृत्सु᳚ ॥
पदपाठः (Word-by-word)
दधा᳚ति । के॒तुम् । उ॒भय᳚स्य । ज॒न्तोः । ह॒व्या । दे॒वेषु᳚ । द्रवि᳚णम् । सु॒कृत्॑सु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
जारः सर्वेषां प्राणिनां जरयिता होता देवानामाह्वाता मन्द्रो मदयिता स्तुत्योवा कवितमः प्राज्ञतमः पावकः शोधकोग्निः उषसामुप- स्थात् मध्ये अबोधि अबुध्यत । किं च उभयस्य द्विपदश्च चतुष्पदश्च दैव्यस्य मानुषस्यवा जन्तोः प्राणिनः केतुं प्रज्ञानं दधाति विदधाति । देवेषु च हव्या हव्यानि दधाति । सुकृत्सु यजमानेषु च द्रविणं धनं दधाति ॥ १ ॥