श्रवणम्

7.9.4
ई॒ळेन्यो᳚ वो॒ मनु᳚षो यु॒गेषु᳚ समन॒गा अ᳚शुचज्जा॒तवे᳚दाः ।
सु॒सं॒दृशा᳚ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः᳚ समिधा॒नं बु᳚धन्त ॥
▶ पदपाठः (Word-by-word)
ई॒ळेन्यः᳚ । वः॒ । मनु᳚षः । यु॒गेषु᳚ । स॒म॒न॒॑गाः । अ॒शु॒च॒त् । जा॒त॑वे᳚दाः ।
सु॒॑स॒न्दृशा᳚ । भा॒नुना᳚ । यः । वि॒॑भाति᳚ । प्रति᳚ । गावः᳚ । स॒म्॑इ॒धा॒नम् । बु॒ध॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वस्त्वं अत्र विभक्तेर्वचनव्यत्ययः मनुषो मनुष्यस्य युगेषु यागकालेषु सवेष्वपि दिवसेषु वा ईळेन्यः स्तुत्यः अतः परं परोक्षस्तुतिः योग्निर्जातवेदाः जातधनः समनगाः युद्धेषु संगन्तःसन् अशुचत् दीप्यते सुसंदृशा सुसंदर्शनेन भानुना तेजसा विभातिच तमग्निं समिधानं समिध्यमानं गावः स्तुतयः प्रतिबुधन्त प्रतिबोधयन्ति ॥ ४ ॥