अमू᳚रः क॒विरदि᳚तिर्वि॒वस्वा᳚न्त्सुसं॒सन्मि॒त्रो अति᳚थिः शि॒वो नः᳚ ।
चि॒त्रभा᳚नुरु॒षसां᳚ भा॒त्यग्रे॒॑पां गर्भ᳚ः प्र॒स्व१॒᳚ आ वि᳚वेश ॥
चि॒त्रभा᳚नुरु॒षसां᳚ भा॒त्यग्रे॒॑पां गर्भ᳚ः प्र॒स्व१॒᳚ आ वि᳚वेश ॥
पदपाठः (Word-by-word)
अमू᳚रः । क॒विः । अदि᳚तिः । वि॒वस्वा᳚न् । सु॒॑सं॒सत् । मि॒त्रः । अति᳚थिः । शि॒वः । नः॒ ।
चि॒त्र॑भा᳚नुः । उ॒षसा᳚म् । भा॒ति॒ । अग्रे᳚ । अ॒पाम् । गर्भः᳚ । प्र॒॑स्वः᳚ । आ । वि॒वे॒श॒ ॥
चि॒त्र॑भा᳚नुः । उ॒षसा᳚म् । भा॒ति॒ । अग्रे᳚ । अ॒पाम् । गर्भः᳚ । प्र॒॑स्वः᳚ । आ । वि॒वे॒श॒ ॥
सायणभाष्यम् (Sayana Commentary)
योग्निरमूरोमूढः कविः प्राज्ञः अदितिरदीनः विवस्वान् दीप्तिमान् सुसंसत् शोभनसदनः शोभनसंवेदनोवा मित्रः प्रमीतेस्त्राता सर्वेषां अतिथिः अतिथिवत्पूज्यः शिवः शिवकरोजगतः चित्रभानुः चित्रदीप्तिः उषसामग्ने मुखे भाति । सोयमापां गर्भःसन् प्रस्वः जायमानाः ओषधीराविवेश ॥ ३ ॥