सप्तमं मण्डलम् - सूक्तम् 27

5 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 7.27 - सम्पूर्णम्

1 / 5
ऋक्: 7.27.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
7.27.1
इन्द्रं॒ नरो᳚ ने॒मधि᳚ता हवन्ते॒ यत्पार्या᳚ यु॒नज᳚ते॒ धिय॒स्ताः ।
शूरो॒ नृषा᳚ता॒ शव᳚सश्चका॒न आ गोम᳚ति व्र॒जे भ᳚जा॒ त्वं नः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । नरः᳚ । ने॒म॑धि᳚ता । ह॒व॒न्ते॒ । यत् । पार्याः᳚ । यु॒नज᳚ते । धियः᳚ । ताः ।
शूरः᳚ । नृ॑सा᳚ता । शव᳚सः । च॒का॒नः । आ । गो॑म᳚ति । व्र॒जे । भ॒ज॒ । त्वम् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा पार्याः युद्धभरणनिमित्तास्ताः प्रसिद्धा धियः कर्माणि युनजते प्रयुज्यन्ते तदानरो नेतारः यमिन्द्रं नेमधिता नेमधितौ संग्रामे हवन्ते ह्वयन्ति स त्वं शूरः नृषाता नृणां संभक्ता च शवसो बलस्य बलं चकानः कामयमानश्च सन् गोमति गावः संत्यस्मिन्निति गोमन् तस्मिन् व्रजे गोष्ठे समूहे नोस्मान् आभज प्रापय ॥ १ ॥

7.27.2 समानपद
य इ᳚न्द्र॒ शुष्मो᳚ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि᳚भ्यः पुरुहूत॒ नृभ्य᳚ः ।
त्वं हि दृ॒ळ्हा म᳚घव॒न्विचे᳚ता॒ अपा᳚ वृधि॒ परि᳚वृतं॒ न राधः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । इ॒न्द्र॒ । शुष्मः᳚ । म॒घ॒॑व॒न् । ते॒ । अस्ति᳚ । शिक्ष᳚ । सखि᳚॑भ्यः । पु॒रु॒॑हू॒त॒ । नृ॑भ्यः᳚ ।
त्वम् । हि । दृ॒ळ्हा । म॒घ॒॑व॒न् । वि॑चे᳚ताः । अप᳚ । वृ॒धि॒ । परि᳚॑वृतम् । न । राधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहूत बहुभिराहूतेन्द्र ते तव यः शुष्मोबलमस्ति तं शुष्मं सखिभ्यः स्तोतृभ्योनृभ्यः शिक्ष देहि अपि च हे मघवन् हि यस्मात् दृह्ळा दृढानि पुरां द्वाराणि बिभेदिथेतिशेषः तस्मात्सत्वं विचेताः विविक्तप्रज्ञः सन् परिवृतं तिरोहितं राधो धनं अपवृधि अस्मभ्यमपवृणु नेति संप्रत्यर्थे ॥ २ ॥

7.27.3 समानपद
इन्द्रो॒ राजा॒ जग᳚तश्चर्षणी॒नामधि॒ क्षमि॒ विषु᳚रूपं॒ यदस्ति᳚ ।
ततो᳚ ददाति दा॒शुषे॒ वसू᳚नि॒ चोद॒द्राध॒ उप᳚स्तुतश्चिद॒र्वाक् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । राजा᳚ । जग᳚तः । च॒र्ष॒णी॒नाम् । अधि᳚ । क्षमि᳚ । विषु᳚॑रूपम् । यत् । अस्ति᳚ ।
ततः᳚ । द॒दा॒ति॒ । दा॒शुषे᳚ । वसू᳚नि । चोद᳚त् । राधः᳚ । उप᳚॑स्तुतः । चि॒त् । अ॒र्वाक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रो जगतो जंगमस्य पश्वादेः यतोराजा ईश्वरोभवति चर्षणीनां मनुष्याणां च राजा भवति अधिक्षमि क्षमायां विषुरूपं नानारूपं यद्धनमस्ति तस्यापि राजा भवति ततोदाशुषे यजमानाय वसूनि धनानि ददाति सइन्द्रोस्माभिरुपस्तुतएवसन् राधो धनमर्वागस्मदभि- मुखं चोदत् प्रेरयतु चिदवधारणे ॥ ३ ॥

7.27.4
नू चि᳚न्न॒ इन्द्रो᳚ म॒घवा॒ सहू᳚ती दा॒नो वाजं॒ नि य᳚मते न ऊ॒ती ।
अनू᳚ना॒ यस्य॒ दक्षि᳚णा पी॒पाय᳚ वा॒मं नृभ्यो᳚ अ॒भिवी᳚ता॒ सखि᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
नु । चि॒त् । नः॒ । इन्द्रः᳚ । म॒घ॑वा᳚ । स॑हू᳚ती । दा॒नः । वाज᳚म् । नि । य॒म॒ते॒ । नः॒ । ऊ॒ती ।
अनू᳚ना । यस्य᳚ । दक्षि᳚णा । पी॒पाय᳚ । वा॒मम् । नृ॑भ्यः᳚ । अ॒भि॑वी᳚ता । सखि᳚॑भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघवा धनवान् दानोददानः सइन्द्रोनोस्माकं सहूती सहूत्या मरुद्भिः सहाह्वानेन वाजमन्नं नोस्मभ्यं ऊती ऊत्यै रक्षायै नूचित् क्षिप्रमेव नियमते प्रयच्छतु यस्येन्द्रस्य अनूना संपूर्णा अभिवीता अभिप्राप्ता दक्षिणा दानं सखिभ्यः स्तोतृभ्यो नृभ्यो वामं वननीयं धनं पीपाय दोग्धि ॥ ४ ॥

7.27.5
नू इ᳚न्द्र रा॒ये वरि᳚वस्कृधी न॒ आ ते॒ मनो᳚ ववृत्याम म॒घाय᳚ ।
गोम॒दश्वा᳚व॒द्रथ᳚व॒द्व्यन्तो᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । इ॒न्द्र॒ । रा॒ये । वरि᳚वः । कृ॒धि॒ । नः॒ । आ । ते॒ । मनः᳚ । व॒वृ॒त्या॒म॒ । म॒घाय᳚ ।
गो॑म᳚त् । अश्व᳚॑वत् । रथ᳚॑वत् । व्यन्तः᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोस्मभ्यं राये धनप्राप्तये नु क्षिप्रं वरिवोधनं वेदः वरिवइति धननामसु पाठात् त्वं कृधि देहि वयं ते तव मनः मघाय मंहनीयाय स्तुत्या आववृत्याम आवर्तयाम । स्पष्टमन्यत् ॥ ५ ॥

ब्रह्माणइन्द्रेति पंचर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं ब्रह्माणइत्यनुक्रान्तं महाव्रते निष्केवल्ये पंचमत्वेनास्य सूक्तस्य विनियो- गउक्तः अष्टमेहनि प्रउगशस्त्रे आद्यस्तृचऎन्द्रः ।