सप्तमं मण्डलम् - सूक्तम् 10

5 ऋचः

ऋषिः: वसिष्ठः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 7.10 - सम्पूर्णम्

1 / 5
ऋक्: 7.10.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
7.10.1
उ॒षो न जा॒रः पृ॒थु पाजो᳚ अश्रे॒द्दवि᳚द्युत॒द्दीद्य॒च्छोशु᳚चानः ।
वृषा॒ हरि॒ः शुचि॒रा भा᳚ति भा॒सा धियो᳚ हिन्वा॒न उ᳚श॒तीर᳚जीगः ॥
▶ पदपाठः (Word-by-word)
उ॒षः । न । जा॒रः । पृ॒थु । पाजः᳚ । अ॒श्रे॒त् । दवि᳚द्युतत् । दीद्य᳚त् । शोशु᳚चानः ।
वृषा᳚ । हरिः᳚ । शुचिः᳚ । आ । भा॒ति॒ । भा॒सा । धियः᳚ । हि॒न्वा॒नः । उ॒श॒तीः । अ॒जी॒ग॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निः उषोन जारः उषसोजारः सूर्यः तद्वत् पृथु विस्तीर्णं पाजस्तेजः अश्रेत् श्रयति । किं च दविद्युतत् दीद्यत शोशुचानइति त्रयोपिशब्दा यद्यपि दीप्तिकर्माणः तथापि दीप्तेर्भूयस्त्वज्ञा पनाय प्रयुक्ताइति न पुनरुक्तिः अत्यन्तं दीप्यमानइत्यर्थः । वृषा कामानां वर्षिता इरिर्हवि- षा प्रेरकः शुचिः शुद्धिकृदग्निः धियः कर्माणि हिन्वानः प्रेरयन् भासा दीप्त्या आभाति प्रकाशते । अपि च उशतीः कामयमानाः अजीगः जागरयति तमसा तिरोहिताः प्रजाः उद्गिरतिवा ॥ १ ॥

7.10.2 समानपद
स्व१॒᳚र्ण वस्तो᳚रु॒षसा᳚मरोचि य॒ज्ञं त᳚न्वा॒ना उ॒शिजो॒ न मन्म᳚ ।
अ॒ग्निर्जन्मा᳚नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे᳚व॒यावा॒ वनि᳚ष्ठः ॥
▶ पदपाठः (Word-by-word)
स्वः᳚ । न । वस्तोः᳚ । उ॒षसा᳚म् । अ॒रो॒चि॒ । य॒ज्ञम् । त॒न्वा॒नाः । उ॒शिजः᳚ । न । मन्म᳚ ।
अ॒ग्निः । जन्मा᳚नि । दे॒वः । आ । वि । वि॒द्वान् । द्र॒वत् । दू॒तः । दे॒व॒॑यावा᳚ । वनि᳚ष्ठः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नेः वस्तोरहनि वस्तोः द्युरित्यहर्नामसुपाठात् उषसामग्ने स्वर्णआदित्यइव तथा च यास्कः-स्वरादित्योभवति सुअरणः सुईरणइति । अरोचि दीप्यते उशिजोन ऋत्विजश्च यज्ञं तन्वानाः विस्तारयन्तः मन्म मन्मानि मननीयानि स्तोत्राणि पठंतीतिशेषः । नेति संप्रत्यर्थे अपि च विद्वान् जानन् दूतो देवानां देवयावा देवान् देवान् प्रतिगच्छन् वनिष्ठो दातृतमोग्निः विआद्रवत् विविधमाद्रवति ॥ २ ॥

7.10.3
अच्छा॒ गिरो᳚ म॒तयो᳚ देव॒यन्ती᳚र॒ग्निं य᳚न्ति॒ द्रवि᳚णं॒ भिक्ष᳚माणाः ।
सु॒सं॒दृशं᳚ सु॒प्रती᳚कं॒ स्वञ्चं᳚ हव्य॒वाह᳚मर॒तिं मानु᳚षाणाम् ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । गिरः᳚ । म॒तयः᳚ । दे॒व॒॑यन्तीः᳚ । अ॒ग्निम् । य॒न्ति॒ । द्रवि᳚णम् । भिक्ष᳚माणाः ।
सु॒॑स॒न्दृश᳚म् । सु॒॑प्रती᳚कम् । सु॒॑अञ्च᳚म् । ह॒व्य॒॑वाह᳚म् । अ॒र॒तिम् । मानु᳚षाणाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मतयः स्तुतिरूपाः देवयन्तीर्देवानिच्छन्त्यो द्रविणं धनं भिक्षमाणाः यात्रमानाः गिरोवाचः सुसंदृशं कल्याणसंदर्शनं सुप्रतीकं सुरूपं शो- भनांगंवा स्वंचं सुष्ठु गच्छन्तं हव्यवाहं हव्यानां वोढारं मानुषाणामरीतं स्वामिनमग्निं अच्छाभियन्ति अभिगच्छन्ति ॥ ३ ॥

7.10.4
इन्द्रं᳚ नो अग्ने॒ वसु᳚भिः स॒जोषा᳚ रु॒द्रं रु॒द्रेभि॒रा व᳚हा बृ॒हन्त᳚म् ।
आ॒दि॒त्येभि॒रदि᳚तिं वि॒श्वज᳚न्यां॒ बृह॒स्पति॒मृक्व᳚भिर्वि॒श्ववा᳚रम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । नः॒ । अ॒ग्ने॒ । वसु᳚॑भिः । स॒॑जोषाः᳚ । रु॒द्रम् । रु॒द्रेभिः᳚ । आ । व॒ह॒ । बृ॒हन्त᳚म् ।
आ॒दि॒त्येभिः᳚ । अदि᳚तिम् । वि॒श्व॑ज᳚न्याम् । बृह॒स्पति᳚म् । ऋक्व᳚॑भिः । वि॒श्व॑वा᳚रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वसुभिर्देवैः सजोषाः संगतस्त्वं नोस्मदर्थमिन्द्रमावह । रुद्रेभिः रुद्रैः देवैः सङ्गतो बृहन्तं महान्तं रुद्रं चावह । आदित्येभिरादित्यै- र्देवैः संगतो विश्वजन्यां विश्वजनहितां अदितिं चावह ऋक्वभिः स्तुत्यैरङ्गिरोभिर्देवैः संगतो विश्ववारं विश्वैः संभजनीयं बृहस्पतिं चा- वह ॥ ४ ॥

7.10.5
म॒न्द्रं होता᳚रमु॒शिजो॒ यवि᳚ष्ठम॒ग्निं विश᳚ ईळते अध्व॒रेषु᳚ ।
स हि क्षपा᳚वा{4}॒ अभ᳚वद्रयी॒णामत᳚न्द्रो दू॒तो य॒जथा᳚य दे॒वान् ॥
▶ पदपाठः (Word-by-word)
म॒न्द्रम् । होता᳚रम् । उ॒शिजः᳚ । यवि᳚ष्ठम् । अ॒ग्निम् । विशः᳚ । ई॒ळ॒ते॒ । अ॒ध्व॒रेषु᳚ ।
सः । हि । क्षपा᳚॑वान् । अभ᳚वत् । र॒यी॒णाम् । अत᳚न्द्रः । दू॒तः । य॒जथा᳚य । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिजः कामयमानाः विशोमनुष्याः मन्द्रं स्तुत्यं होतारमाह्वातारं यविष्ठं युवतममग्निं अध्वरेषु यागेषु ईळते स्तुवन्ति । हि यस्मात् कारणात् सोग्निः क्षपावान् रात्रिमान् रात्रौ खल्वग्नये अग्निहोत्रं हूयते रयीणां सूर्यस्य रयिमतां हविष्मतां यजमानानां देवान् यजथाय यष्टुं अतन्द्रस्तन्द्रारहितोभवत् । तथा च श्रूयते यस्मादृऊतोभवत्तस्माद्विशस्तमध्वरेईळतइति ॥ ५ ॥

महाँअसीति पञ्चर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं महानित्यनुक्रांन्तं प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।