सप्तमं मण्डलम् - सूक्तम् 80

3 ऋचः

ऋषिः: वसिष्ठः देवता: उषाः छन्दः: त्रिष्टुप्

सूक्तम् 7.80 - सम्पूर्णम्

1 / 3
ऋक्: 7.80.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
7.80.1
प्रति॒ स्तोमे᳚भिरु॒षसं॒ वसि᳚ष्ठा गी॒र्भिर्विप्रा᳚सः प्रथ॒मा अ᳚बुध्रन् ।
वि॒व॒र्तय᳚न्तीं॒ रज᳚सी॒ सम᳚न्ते आविष्कृण्व॒तीं भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । स्तोमे᳚भिः । उ॒षस᳚म् । वसि᳚ष्ठाः । गीः॒॑भिः । विप्रा᳚सः । प्र॒थ॒माः । अ॒बु॒ध्र॒न् ।
वि॒॑व॒र्तय᳚न्तीम् । रज᳚सी॒ इति᳚ । सम᳚न्ते॒ इति॒ सम्॑अ᳚न्ते । आ॒विः॒॑कृ॒ण्व॒तीम् । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रासोमेधाविनोवसिष्ठाः वसिष्ठगोत्राः स्तोमेभिः स्तोतृभिः प्रयुज्यमानागीर्भिः स्तुतिभिः प्रथमा इतरयजमानेभ्यः पूर्वभूताः सन्तः उषसं प्रत्यबुध्रन् प्रतिबोधयन्ति । कीदृशीमुषसं चरजसी द्यावापृथिव्यौ समन्ते समानपर्यन्ते एकीभूतप्रान्ते विवर्त्ययन्तीं व्यावर्तयन्तीं विश्वा सर्वाणि भुवनानि भूतजातान्याविष्कृण्वतीं प्रकटीकुर्वतीं स्वभासा ॥ १ ॥

7.80.2
ए॒षा स्या नव्य॒मायु॒र्दधा᳚ना गू॒ढ्वी तमो॒ ज्योति᳚षो॒षा अ᳚बोधि ।
अग्र᳚ एति युव॒तिरह्र᳚याणा॒ प्राचि᳚कित॒त्सूर्यं᳚ य॒ज्ञम॒ग्निम् ॥
▶ पदपाठः (Word-by-word)
ए॒षा । स्या । नव्य᳚म् । आयुः᳚ । दधा᳚ना । गू॒ढ्वी । तमः᳚ । ज्योति᳚षा । उ॒षाः । अ॒बो॒धि॒ ।
अग्रे᳚ । ए॒ति॒ । यु॒व॒तिः । अह्र᳚याणा । प्र । अ॒चि॒कि॒त॒त् । सूर्य᳚म् । य॒ज्ञम् । अ॒ग्निम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोषाः स्या सा गतदिवसेषु प्रसिद्धा अदृश्यमानैषा नव्यं नवतरं आयुरायुष्यं यौवनमित्यर्थः तादृशं दधाना धारयन्ती गूढ्वी गूढंतमो- न्धकारं ज्योतिषा स्वतेजसा निवारयन्ती अबोधि बुध्यते अग्रे पुरोदेशे सूर्यस्य पुरस्तात् देवानामग्रेवा इतरदेवेभ्यः पूर्वमित्यर्थः युवतिः नित्यतरुणी सर्वत्रमिश्रयन्ती वा अह्रयाणा लुप्तोपमैषा अलज्जा युवतिरिव सायथा पत्युरग्रे सञ्चरातं तद्वत सूर्यस्य पुरस्तादेति एवंभूता- सती सूर्यं यज्ञमग्निं च प्राचिकितत् प्रज्ञापयति ॥ २ ॥

7.80.3
अश्वा᳚वती॒र्गोम᳚तीर्न उ॒षासो᳚ वी॒रव᳚ती॒ः सद᳚मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा᳚ना वि॒श्वत॒ः प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
अश्व᳚॑वतीः । गो॑म᳚तीः । नः॒ । उ॒षसः᳚ । वी॒र॑व᳚तीः । सद᳚म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।
घृ॒तम् । दुहा᳚नाः । वि॒श्वतः᳚ । प्र॑पी᳚ताः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वावतीर्बहुभिर्नोस्मभ्यं प्रदेयैरश्वैस्तद्वत्यः तथा गोमतीर्गोमत्यो गोप्रदाः वीरवतीर्वीरवत्यः पुत्रप्रदाः अतएवभद्राः स्तुत्याउषासउषसः सदं सर्वदा उच्छंतु पुनः कीदृश्यः घृतं उदकं दुहानाः दोग्ध्यं विश्वतः प्रपीताः सर्वतः प्रवृद्धाः । यूयंपातेतिगतम् ॥ ३ ॥

वेदार्थस्यप्रकाशेनतमोहर्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहे वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके पञ्चमोध्यायः समाप्तः ॥ ५ ॥