येषां॒ ब्रह्मा॒ण्यस᳚मानि॒ विप्रा॒ विष्व᳚ग्वि॒यन्ति᳚ व॒निनो॒ न शाखा᳚ः ॥
पदपाठः (Word-by-word)
येषा᳚म् । ब्रह्मा᳚णि । अस᳚मानि । विप्रा᳚ । विष्व᳚क् । वि॒॑यन्ति᳚ । व॒निनः᳚ । न । शाखाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
देवयन्तो देवान्कामयमानाः विप्राः यज्ञेषुनमोभिः स्तुतिभिर्हविर्भिर्वा वोयुष्मान् इषध्यै अभिप्राप्तुं प्रार्चन् प्रार्चयन्ति प्रकर्षेणस्तुवन्ति द्यावा दिवं पृथिवी भूमिंच प्रस्तुवन्ति येषां विप्राणां मेधाविनां असमानि ब्रह्माणि स्तोत्राणि वनिनोन शाखाः वृक्षस्य शाखाः शाखाइव विष्वक् विश्वतः वियन्ति विशेषेणगच्छन्ति ते विप्राः प्रार्चन्निति पूर्वेण संबन्धः ॥ १ ॥