ए॒वा नो᳚ अग्ने वि॒क्ष्वा द᳚शस्य॒ त्वया᳚ व॒यं स᳚हसाव॒न्नास्क्रा᳚ः ।
रा॒या यु॒जा स᳚ध॒मादो॒ अरि᳚ष्टा यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
रा॒या यु॒जा स᳚ध॒मादो॒ अरि᳚ष्टा यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
ए॒व । नः॒ । अ॒ग्ने॒ । वि॒क्षु । आ । द॒श॒स्य॒ । त्वया᳚ । व॒यम् । स॒ह॒सा॒॑व॒न् । आस्क्राः᳚ ।
रा॒या । यु॒जा । स॒ध॒॑मादः᳚ । अरि᳚ष्टाः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
रा॒या । यु॒जा । स॒ध॒॑मादः᳚ । अरि᳚ष्टाः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने एवं स्तुतस्त्वं विक्षु प्रजासु मध्ये नोस्मभ्यं आदशस्य धनं अभिप्रयच्छ हे सहसावन् बलवन्नग्ने त्वया आस्काः आस्कन्नाः वयं युजा नित्ययुक्तेन राया धनेन सधमादः सहमाद्यंतः अरिष्टाः अहिंसिताभवेम अस्मिन् सूक्ते प्रतिपादिताः सर्वे देवा यूयं नोस्मान् कल्याणैः सर्वदा पालयत ॥ ५ ॥
दधिक्रांवइति पंचर्चमेकादशं सूक्तं वसिष्ठस्यार्षं दधिक्राख्यदेवताकं आद्याजगती सातुदधिक्रादिलिंगोक्तदेवताका शिष्टाश्चतस्रस्त्रिष्टुभ: अनुक्रम्यतेहि-दधिक्रांदाधिकं जगत्याद्यालिंगोक्तदेवतेति । गतोविनियोगः ।