श्रवणम्

7.43.3
आ पु॒त्रासो॒ न मा॒तरं॒ विभृ᳚त्रा॒ः सानौ᳚ दे॒वासो᳚ ब॒र्हिषः᳚ सदन्तु ।
आ वि॒श्वाची᳚ विद॒थ्या᳚मन॒क्त्वग्ने॒ मा नो᳚ दे॒वता᳚ता॒ मृध᳚स्कः ॥
▶ पदपाठः (Word-by-word)
आ । पु॒त्रासः᳚ । न । मा॒तर᳚म् । वि॑भृ᳚त्राः । सानौ᳚ । दे॒वासः᳚ । ब॒र्हिषः᳚ । स॒द॒न्तु॒ ।
आ । वि॒श्वाची᳚ । वि॒द॒थ्या᳚म् । अ॒न॒क्तु॒ । अग्ने᳚ । मा । नः॒ । दे॒व॑ता᳚ता । मृधः᳚ । क॒रिति᳚ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मातरं जननीं विभृत्राः विशेषेणभर्तव्याः पुत्रासोन पुत्राइव तद्वदस्माकं भरणीया देवासोदेवाः बर्हिषः कुशमयस्य वेद्यामास्तीर्णस्य सानौ उन्नते देशे आसदन्तु उपविशन्तु हे अग्ने विदथ्यां यज्ञयोग्यां त्वदीयां ज्वालां विश्वाची विश्वं सर्वं हविरंचति गच्छतीति विश्वाची जुहुः आअनक्तु आसमन्तात्सिंचतु देवताता देवतातौ युद्धे नोस्माकं मृधः हिंसकान् हे अग्ने त्वं माकः माकार्षीः यज्ञवाचकोदेवतातिशब्दः अत्र संग्रामे वर्तते ॥ ३ ॥