सप्तमं मण्डलम् - सूक्तम् 38

8 ऋचः

ऋषिः: वसिष्ठः देवता: सविता छन्दः: त्रिष्टुप्

सूक्तम् 7.38 - सम्पूर्णम्

1 / 8
ऋक्: 7.38.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
7.38.1
उदु॒ ष्य दे॒वः स᳚वि॒ता य᳚याम हिर॒ण्ययी᳚म॒मतिं॒ यामशि᳚श्रेत् ।
नू॒नं भगो॒ हव्यो॒ मानु᳚षेभि॒र्वि यो रत्ना᳚ पुरू॒वसु॒र्दधा᳚ति ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्यः । दे॒वः । स॒वि॒ता । य॒या॒म॒ । हि॒र॒ण्ययी᳚म् । अ॒मति᳚म् । याम् । अशि᳚श्रेत् ।
नू॒नम् । भगः᳚ । हव्यः᳚ । मानु᳚षेभिः । वि । यः । रत्ना᳚ । पु॒रु॒॑वसुः᳚ । दधा᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता सर्वस्यप्रेरकः स्यः सदेवः हिरण्ययीं सुवर्णमयीं यां अमतिं रूपनामैतत् रूपं प्रभामित्यर्थः अशिश्रेत् आश्रयति ताममतिं उद्ययाम उद्यच्छति उद्गमयति उइतिपदपूरणः नूनमद्य भगोभजनीयोयः सविता मानुषेभिः मनुष्यैः स्तोतृभिः हव्योहवनीयः स्तोतव्योभवति पु- रूवसुःबहुधनोयोदेवःस्तोतृभ्योरत्ना रत्नानि रमणीयानि धनानि विदधाति करोति ससविता देवःताममतिं उद्ययामेति पूर्वेणसंबंध: ॥ १ ॥

7.38.2 समानपद
उदु᳚ तिष्ठ सवितः श्रु॒ध्य१॒᳚स्य हिर᳚ण्यपाणे॒ प्रभृ᳚तावृ॒तस्य᳚ ।
व्यु१॒᳚र्वीं पृ॒थ्वीम॒मतिं᳚ सृजा॒न आ नृभ्यो᳚ मर्त॒भोज᳚नं सुवा॒नः ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । ति॒ष्ठ॒ । स॒वि॒त॒रिति᳚ । श्रु॒धि । अ॒स्य । हिर᳚ण्य॑पाणे । प्र॑भृ᳚तौ । ऋ॒तस्य᳚ ।
वि । उ॒र्वीम् । पृ॒थ्वीम् । अ॒मति᳚म् । सृ॒जा॒नः । आ । नृ॑भ्यः᳚ । म॒र्त॒॑भोज᳚नम् । सु॒वा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः सर्वस्य प्रेरयितर्देव त्वं उत्तिष्ठ ऊर्ध्वंगच्छ ततः हिरण्यपाणे हेसुवर्णहस्त त्वं अस्मदीप्सितप्रदानाय ऋतस्य यज्ञस्य प्रभृतौ प्रणयने अस्य अस्मदीयमिदं स्तोत्रं श्रुधि शृणु उइतिपूरणः कीदृशस्त्वं उर्वीं विस्तीर्णां पृथ्वीं प्रथितां अमतिं रूपं प्रभां विसृजानोविसृ- जन् नृभ्योनेतृभ्यः स्तोतृभ्यः मर्तभोजनं मनुष्याणां भोगयोग्यं धनं आसुवानः प्रेरयन् एवंभूतस्त्वं इदं स्तोत्रं श्रृण्वितिसंबन्धः ॥ २ ॥

7.38.3 समानपद
अपि᳚ ष्टु॒तः स᳚वि॒ता दे॒वो अ᳚स्तु॒ यमा चि॒द्विश्वे॒ वस᳚वो गृ॒णन्ति᳚ ।
स न॒ः स्तोमा᳚न्नम॒स्य१॒᳚श्चनो᳚ धा॒द्विश्वे᳚भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥
▶ पदपाठः (Word-by-word)
अपि᳚ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे᳚ । वस᳚वः । गृ॒णन्ति᳚ ।
सः । नः॒ । स्तोमा᳚न् । न॒म॒स्यः᳚ । चनः᳚ । धा॒त् । विश्वे᳚भिः । पा॒तु॒ । पा॒यु॑भिः᳚ । नि । सू॒रीन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपिच सवितादेवः अस्माभिः स्तुतोस्तु अस्मदीयाः स्तुतीः शृणोत्वित्यर्थः विश्वे वसवश्चित् सर्वेदेवा अपि यंसवितारं आगृणन्ति अभि- ष्टुवन्ति नमस्यः सर्वैर्नमस्करणीयः सदेवः स्तोमान् नोस्मदीयानि स्तोत्राणिच नः अन्नं धात् दधातु अन्नफलानिकरोतु विश्वेभिर्विश्वैः सर्वैः पायुभिः पालनैः सूरीन् स्तोतॄन् अस्मान् निपातु नितरां पालयतु ॥ ३ ॥

7.38.4
अ॒भि यं दे॒व्यदि᳚तिर्गृ॒णाति᳚ स॒वं दे॒वस्य᳚ सवि॒तुर्जु᳚षा॒णा ।
अ॒भि स॒म्राजो॒ वरु᳚णो गृणन्त्य॒भि मि॒त्रासो᳚ अर्य॒मा स॒जोषा᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । यम् । दे॒वी । अदि᳚तिः । गृ॒णाति᳚ । स॒वम् । दे॒वस्य᳚ । स॒वि॒तुः । जु॒षा॒णा ।
अ॒भि । स॒म्॑राजः᳚ । वरु᳚णः । गृ॒ण॒न्ति॒ । अ॒भि । मि॒त्रासः᳚ । अ॒र्य॒मा । स॒॑जोषाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवी द्योतमाना अदितिरदीना देवमातायंसवितारं अभिगृणाति अभिष्टौति कीदृशी सवितुर्देवस्यैव सवं प्रसवमनुज्ञां जुषाणा सेवमाना सम्राजः सम्यग्राजमानाः वरुणः उपलक्षणमेतत् वरुणादयोदेवाः यंसवितारमभिगृणन्ति अभिष्टुवन्ति मित्रासोमित्रादयश्च सजोषाः समानप्रीतिः अर्यमा एतत्संज्ञकोदेवश्च यमभिगृणन्ति सनः स्तोमांश्चनोधादिति पूर्वयर्चासंबन्धः ॥ ४ ॥

7.38.5 समानपद
अ॒भि ये मि॒थो व॒नुष॒ः सप᳚न्ते रा॒तिं दि॒वो रा᳚ति॒षाचः᳚ पृथि॒व्याः ।
अहि᳚र्बु॒ध्न्य᳚ उ॒त नः᳚ शृणोतु॒ वरू॒त्र्येक᳚धेनुभि॒र्नि पा᳚तु ॥
▶ पदपाठः (Word-by-word)
अ॒भि । ये । मि॒थः । व॒नुषः᳚ । सप᳚न्ते । रा॒तिम् । दि॒वः । रा॒ति॒॑साचः᳚ । पृ॒थि॒व्याः ।
अहिः᳚ । बु॒ध्न्यः᳚ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू᳚त्री । एक᳚धेनु॑भिः । नि । पा॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रातिषाचोदानसेविनः वनुषः संभक्तारः ये यजमानाः मिथः परस्परं संहताभूत्वा सवितारं अभिलक्ष्य सपन्ते परिचरन्ति कीदृशं देवोद्यु- लोकस्य पृथिव्याभूमेश्च रातिं मित्रभूतं उतापिच अहिर्बुध्न्यः बुन्धेन्तरिक्षेभवोबुध्यः एतीत्यहिः एतत्पदद्वयाभिधेयमध्यमस्थानोग्निः अहि- र्बुध्न्यइत्युच्यते सवितुर्मित्रभूतः सोपि तेषां नोस्माकं सवितृविषयं स्तोत्रं शृणोतु तथा वरूत्रीवाग्देवी च सवितृसहितासती एकधेनुभिर्मु- ख्याभिर्गोभिः निपातु नितरामस्मान् पालयत ॥ ५ ॥

7.38.6 समानपद
अनु॒ तन्नो॒ जास्पति᳚र्मंसीष्ट॒ रत्नं᳚ दे॒वस्य᳚ सवि॒तुरि᳚या॒नः ।
भग᳚मु॒ग्रो॑व᳚से॒ जोह᳚वीति॒ भग॒मनु᳚ग्रो॒ अध᳚ याति॒ रत्न᳚म् ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । तत् । नः॒ । जाः॑पतिः᳚ । मं॒सी॒ष्ट॒ । रत्न᳚म् । दे॒वस्य᳚ । स॒वि॒तुः । इ॒या॒नः ।
भग᳚म् । उ॒ग्रः । अव᳚से । जोह᳚वीति । भग᳚म् । अनु᳚ग्रः । अध᳚ । या॒ति॒ । रत्न᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयानः अस्माभिर्याच्यमानः जास्पतिः प्रजानां पालकः सवितादेवः सवितुर्देवस्य स्वस्य संबंधिरत्नं रमणीयं तत् प्रसिद्धं धनं नोस्माकं अनुमंसीष्ट अनुमन्यतां उग्रओजस्वी स्तोता भगं भजनीयं सवितारं भगसंज्ञंकं देवं वा अवसे नोस्माकं रक्षणाय जोहवीति भृशं ह्वयति अधापिच अनुग्रः असमर्थः स्तोता भगमेतत्संज्ञकं सवितारंवा रत्नं रमणीयं तत्प्रसिद्धं धनं याति याचते ॥ ६ ॥

7.38.7 समानपद
शं नो᳚ भवन्तु वा॒जिनो॒ हवे᳚षु दे॒वता᳚ता मि॒तद्र᳚वः स्व॒र्काः ।
ज॒म्भय॒न्तो॑हिं॒ वृकं॒ रक्षां᳚सि॒ सने᳚म्य॒स्मद्यु᳚यव॒न्नमी᳚वाः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । भ॒व॒न्तु॒ । वा॒जिनः᳚ । हवे᳚षु । दे॒व॑ता᳚ता । मि॒त॑द्र᳚वः । सु॒॑अ॒र्काः ।
ज॒म्भय᳚न्तः । अहि᳚म् । वृक᳚म् । रक्षां᳚सि । सने᳚मि । अ॒स्मत् । यु॒य॒व॒न् । अमी᳚वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवताता देवतातौ यज्ञे हवेष्वस्मदीयेषु स्तोत्रेषु मितद्रवः मितद्रवणाः मितमार्गाः स्वर्काः शोभनान्नाः वाजिनः एतदभिधायकादेवाः नोस्माकं शं सुखाय भवन्तु अपिच अहिं आगत्य हन्तारं वृकं वसूनामादातारं चोरमितिशेषः रक्षांसिच जंभयन्तोहिंसन्तोवाजिनोदेवाः सनेमि पुराणनामैतत् पुरातनाः अमीवाः रोगान् अस्मदस्मत्तः युयवन् पृथक्कुर्वन्तु ॥ ७ ॥

7.38.8 समानपद
वाजे᳚वाजे॑वत वाजिनो नो॒ धने᳚षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्व᳚ः पिबत मा॒दय᳚ध्वं तृ॒प्ता या᳚त प॒थिभि᳚र्देव॒यानै᳚ः ॥
▶ पदपाठः (Word-by-word)
वाजे᳚॑वाजे । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने᳚षु । वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒॑ज्ञाः॒ ।
अ॒स्य । मध्वः᳚ । पि॒ब॒त॒ । मा॒दय᳚ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थि॑भिः᳚ । दे॒व॒॑यानैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनः एतन्नामकादेवाः विप्राः मेधाविनः अमृता अमरणधर्माणः ऋतज्ञाः सत्यं जानन्तः एवं भूताः सन्तोयूयं वाजेवाजे सर्वेषु युद्धेषु नोस्मान् धनेषु धननिमित्तेषु अवत पालयत ततोयूयं अस्यमध्वः मधुरोपेतमिमं सोमं पिबत सोमपानानंतरं मादयध्वं यूयं तृप्ताभवत ततस्तृप्तायूयं देवयांनैः देवगमनसाधनैः पथिमिर्मार्गैर्यात गच्छत ॥ ८ ॥

ऊर्ध्वोअग्निरिति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवं ऊर्ध्वः सप्तवैश्वदेवं त्वित्यनुक्रमणिका । सूक्तविनियोगोलैंगिकः । द्वितीयेछन्दोमे प्रउगशस्त्रे ऊर्ध्वोअग्निरिति वैश्वदेवस्तृचः सूत्रितंच-ऊर्ध्वोअग्निः सुमतिंवस्वोअश्रेदुतस्यानः सरस्वतीजुषाणेति प्रउगमिति ।