सप्तमं मण्डलम् - सूक्तम् 46

4 ऋचः

ऋषिः: वसिष्ठः देवता: रुद्रः छन्दः: जगती

सूक्तम् 7.46 - सम्पूर्णम्

1 / 4
ऋक्: 7.46.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
7.46.1 समानपद
इ॒मा रु॒द्राय᳚ स्थि॒रध᳚न्वने॒ गिरः᳚ क्षि॒प्रेष᳚वे दे॒वाय᳚ स्व॒धाव्ने᳚ ।
अषा᳚ळ्हाय॒ सह᳚मानाय वे॒धसे᳚ ति॒ग्मायु᳚धाय भरता शृ॒णोतु᳚ नः ॥
▶ पदपाठः (Word-by-word)
इ॒माः । रु॒द्राय᳚ । स्थि॒र॑ध᳚न्वने । गिरः᳚ । क्षि॒प्र॑इ᳚षवे । दे॒वाय᳚ । स्व॒धा॑व्ने᳚ ।
अषा᳚ळ्हाय । सह᳚मानाय । वे॒धसे᳚ । ति॒ग्म॑आ᳚युधाय । भ॒र॒त॒ । शृ॒णोतु᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अस्मदीयाः स्तोतारोयूयं इमागिरः स्तुतीः रुद्राय एतन्नामकाय देवाय भरत धारयत कीदृशाय स्थिरधन्वने दृढधनुष्काय क्षिप्रेषवे शीघ्रगामिबाणाय स्वधाव्ने अन्नवते अषाह्ळाय केनाप्यनभिभूताय सहमानाय शत्रूणामभिभवित्रे वेधसे विधात्रे तिग्मायुधाय तीक्ष्णा- स्त्राय एवंभूताय रुद्रदेवाय स्तुतीर्भरत सच रुद्रः नोस्मदीयाः स्तुतीः शृणोतु ॥ १ ॥

7.46.2
स हि क्षये᳚ण॒ क्षम्य᳚स्य॒ जन्म᳚न॒ः साम्रा᳚ज्येन दि॒व्यस्य॒ चेत᳚ति ।
अव॒न्नव᳚न्ती॒रुप᳚ नो॒ दुर᳚श्चरानमी॒वो रु᳚द्र॒ जासु᳚ नो भव ॥
▶ पदपाठः (Word-by-word)
सः । हि । क्षये᳚ण । क्षम्य᳚स्य । जन्म᳚नः । साम्॑रा᳚ज्येन । दि॒व्यस्य᳚ । चेत᳚ति ।
अव᳚न् । अव᳚न्तीः । उप᳚ । नः॒ । दुरः᳚ । च॒र॒ । अ॒न॒मी॒वः । रु॒द्र॒ । जासु᳚ । नः॒ । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहि सखलु रुद्रोदेवः क्षम्यस्य क्षमायां पृथिव्यां भवः तस्य जन्मनोजनस्य क्षयेणैश्वर्येण चेतति प्रज्ञायते दिव्यस्य जनस्यच साम्राज्येनैश्व- र्येण प्रज्ञायते । शेषः प्रत्यक्षकृतः हे रुद्रदेव त्वंच अवन्तीः त्वां स्तोत्रैस्तर्पयन्तीः नोस्मदीयाः प्रजाः अवन् पालयन् दुरोदुर्याणि अस्मदी- यानि गृहाणि उपचर उपगच्छ किंच त्वं नोस्मदीयासु प्रजासु अनमीवः अमीवारोगाः तानकुर्वन् भव ॥ २ ॥

7.46.3
या ते᳚ दि॒द्युदव᳚सृष्टा दि॒वस्परि᳚ क्ष्म॒या चर᳚ति॒ परि॒ सा वृ᳚णक्तु नः ।
स॒हस्रं᳚ ते स्वपिवात भेष॒जा मा न᳚स्तो॒केषु॒ तन᳚येषु रीरिषः ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । दि॒द्युत् । अव᳚॑सृष्टा । दि॒वः । परि᳚ । क्ष्म॒या । चर᳚ति । परि᳚ । सा । वृ॒ण॒क्तु॒ । नः॒ ।
स॒हस्र᳚म् । ते॒ । सु॒॑अ॒पि॒वा॒त॒ । भे॒ष॒जा । मा । नः॒ । तो॒केषु᳚ । तन᳚येषु । रि॒रि॒षः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रुद्र ते वैद्युतात्मनस्तव संबन्धिनीदिवस्परि अन्तरिक्षसकाशादवसृष्टा विमुक्ता या दिद्युत् अशनिरूपा हेतिः क्ष्मया क्षित्या क्षितौ वा चरति वर्तते सा दिद्युत् नोस्मान् परिवृणक्तु परित्यजतु अपिच हे स्वपिवात ते तव सहस्रं बहूनि भेषजा भेषजानि यान्यौषधानिसन्ति तान्यस्मभ्यं प्रयच्छेतिशेषः नोस्माकं तोकेषु पुत्रेषु तनयेषुच मा रिरिषः हिंसां माकृथाः ॥ ३ ॥

7.46.4
मा नो᳚ वधी रुद्र॒ मा परा᳚ दा॒ मा ते᳚ भूम॒ प्रसि᳚तौ हीळि॒तस्य᳚ ।
आ नो᳚ भज ब॒र्हिषि᳚ जीवशं॒से यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । व॒धीः॒ । रु॒द्र॒ । मा । परा᳚ । दाः॒ । मा । ते॒ । भू॒म॒ । प्र॑सि᳚तौ । ही॒ळि॒तस्य᳚ ।
आ । नः॒ । भ॒ज॒ । ब॒र्हिषि᳚ । जी॒व॒॑शं॒से । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रुद्र त्वं नोस्मान् मावधीः माहिंसीः तथामापरादाः माअत्याक्षीः अपिच हीळितस्य क्रुद्धस्य ते तव प्रसितौ प्रकर्षेणबन्धने वयं च माभूम । किंच जीवशंसे जीवैराशंसनीये बर्हिषि यज्ञे नोस्मान् आभज भागिनः कुरु हे रुद्रप्रमुखादेवाः यूये नोस्मान् कल्याणैः सर्वदा पालयत ॥ ४ ॥

आपोयंवइति चतुरृचं चतुर्दशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमब्देवताकं आपोयमापमित्यनुक्रान्तंच गतोविनियोगः ।