सप्तमं मण्डलम् - सूक्तम् 76

7 ऋचः

ऋषिः: वसिष्ठः देवता: उषाः छन्दः: त्रिष्टुप्

सूक्तम् 7.76 - सम्पूर्णम्

1 / 7
ऋक्: 7.76.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.76.1 समानपद
उदु॒ ज्योति᳚र॒मृतं᳚ वि॒श्वज᳚न्यं वि॒श्वान᳚रः सवि॒ता दे॒वो अ᳚श्रेत् ।
क्रत्वा᳚ दे॒वाना᳚मजनिष्ट॒ चक्षु᳚रा॒विर᳚क॒र्भुव᳚नं॒ विश्व᳚मु॒षाः ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । ज्योतिः᳚ । अ॒मृत᳚म् । वि॒श्व॑ज᳚न्यम् । वि॒श्वान᳚रः । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् ।
क्रत्वा᳚ । दे॒वाना᳚म् । अ॒ज॒नि॒ष्ट॒ । चक्षुः᳚ । आ॒विः । अ॒कः॒ । भुव᳚नम् । विश्व᳚म् । उ॒षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमृतं अमृतत्व्साधकं अविनाशिवा विश्वजन्यं विश्वेषां जनानां हितकरं ज्योतिः विश्वानरः सर्वेषा नेता सवितोदेवः उदश्रेत् ऊर्ध्वं श्रयति उइतिपूरणः देवानां व्यवहर्तॄणां स्तोतॄणां वा यजमानां ऋत्वा कर्मणा निमित्तेन यागानुष्ठानार्थमित्यर्थः । तदर्थं यद्वा देवानां चक्षुश्चक्षुःस्थानीयमौषसं तेजः क्रत्वा कर्मणा निमित्तेन अजनिष्ट प्रादुर्भूत् उत्पन्नाचोषा विश्वं भुवनं भूतजातमाविरकः प्रादुरकः अकरोत् समस्तं जगदाविष्कृतवती ॥ १ ॥

7.76.2
प्र मे॒ पन्था᳚ देव॒याना᳚ अदृश्र॒न्नम᳚र्धन्तो॒ वसु᳚भि॒रिष्कृ᳚तासः ।
अभू᳚दु के॒तुरु॒षसः᳚ पु॒रस्ता᳚त्प्रती॒च्यागा॒दधि᳚ ह॒र्म्येभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । मे॒ । पन्थाः᳚ । दे॒व॒॑यानाः᳚ । अ॒दृ॒श्र॒न् । अम᳚र्धन्तः । वसु᳚॑भिः । इष्कृ᳚तासः ।
अभू᳚त् । ऊं॒ इति᳚ । के॒तुः । उ॒षसः᳚ । पु॒रस्ता᳚त् । प्र॒ती॒ची । आ । अ॒गा॒त् । अधि᳚ । ह॒र्म्येभ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मे मया देवयानाः देवप्रापकाः पन्थाः पन्थानः प्रादृश्रन् प्रदृश्यन्ते । कीदृशाः पन्थानः अमर्धन्तःअहिंसन्तः वसुभिस्तेजोभिरिष्कृतासः संस्कृताः पुरस्तात् पूर्वस्यांदिशि उषसः केतुः प्रज्ञापकं तेजः अभूत् अचेति ज्ञायते । सोषाश्च प्रतीची प्रत्यगञ्चना अस्मदभिमुखी हर्म्ये- भ्योधि उच्छ्रितेभ्यः प्रदेशेभ्यः हर्म्यशब्दउन्नतप्रदेशोपलक्षकः आगात् आगच्छति । उःपूरणः ॥ २ ॥

7.76.3 समानपद
तानीदहा᳚नि बहु॒लान्या᳚स॒न्या प्रा॒चीन॒मुदि᳚ता॒ सूर्य᳚स्य ।
यत॒ः परि᳚ जा॒र इ᳚वा॒चर॒न्त्युषो᳚ ददृ॒क्षे न पुन᳚र्य॒तीव᳚ ॥
▶ पदपाठः (Word-by-word)
तानि᳚ । इत् । अहा᳚नि । ब॒हु॒लानि᳚ । आ॒स॒न् । या । प्रा॒चीन᳚म् । उत्॑इ᳚ता । सूर्य᳚स्य ।
यतः᳚ । परि᳚ । जा॒रः॑इ᳚व । आ॒॑चर᳚न्ती । उषः᳚ । द॒दृ॒क्षे । न । पुनः᳚ । य॒ती॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषः तानीत् तान्येव तव तेजांसि बहुलान्यहानि आसन् उषः प्रकाशयुक्तस्येव कालस्याहःशब्दव्यवहारात् । तानीत्युक्तं कानीत्याह या यानि सूर्यस्य उदिता उदितौ उदये सति प्राचीनं तस्यप्राग्देशं प्रत्युदयन्ति यद्वा सूर्यस्य प्राचीनेदेशे या यान्युदिता उदितानि तानीत्यर्थः हे उषः यतोयैश्च तेजोभिः परिददृक्षे दृश्यसे त्वं जारइव पत्याविव आचरन्तीसमीपे सञ्चरन्ती साध्वी नारीव सञ्चरन्ती त्वं दृश्यसे यथा लोके दुष्टं भ्रमणशीलमपि पतिमत्यज्यैव साध्वी संचरति तद्वत् तमविमुञ्चतीत्वमित्यर्थः । नपुनर्यतीव यती पतिं परित्यज्य इतस्ततः सञ्चरन्तीव्यभिचारिणीव सूर्यमपरित्यजन्ती त्वं पुनरिवेत्ययं वैलक्षण्यद्योतनार्थः एवं यैस्तेजोभिः युक्ता परिदृश्यसे तान्येवाहान्यास- न्निति संबन्धः ॥ ३ ॥

7.76.4 समानपद
त इद्दे॒वानां᳚ सध॒माद᳚ आसन्नृ॒तावा᳚नः क॒वयः᳚ पू॒र्व्यासः᳚ ।
गू॒ळ्हं ज्योति᳚ः पि॒तरो॒ अन्व᳚विन्दन्त्स॒त्यम᳚न्त्रा अजनयन्नु॒षास᳚म् ॥
▶ पदपाठः (Word-by-word)
ते । इत् । दे॒वाना᳚म् । स॒ध॒॑मादः᳚ । आ॒स॒न् । ऋ॒त॑वा᳚नः । क॒वयः᳚ । पू॒र्व्यासः᳚ ।
गू॒ळ्हम् । ज्योतिः᳚ । पि॒तरः᳚ । अनु᳚ । अ॒वि॒न्द॒न् । स॒त्य॑म᳚न्त्राः । अ॒ज॒न॒य॒न् । उ॒षस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तइत् तेङ्गिरसएव ऋषीणां मध्ये देवानां सधमादः सहमाद्यन्त आसन् अभवन् ते इत्युक्तं कइत्याह ये ऋतावानः सत्यवन्तः कवयोनू- चानाः येवाअनूचानास्तेकवयइतिश्रुतेः । पूर्व्यासः पूर्वकालीनाः पितरः पालयितारः सर्वस्याङ्गिरसोगूह्ळं तमसा आवृतं ज्योतिः सौर्यं तेजोन्वविन्दन् लब्धवत्तोमन्त्रसामर्थ्यात्ते सत्यमन्त्राः सत्यस्तुतयः सन्तः उषासं उषसमजनयन् प्रादुरकुर्वन् । तुरीयेण ब्रह्मणा विन्ददत्रिः । अत्रयस्तमन्वविन्दन्नितिनिगमौ । अत्रांगिरसां स्तुत्योषसएव स्तुतिर्ज्ञातव्या ॥ ४ ॥

7.76.5
स॒मा॒न ऊ॒र्वे अधि॒ संग᳚तास॒ः सं जा᳚नते॒ न य᳚तन्ते मि॒थस्ते ।
ते दे॒वानां॒ न मि᳚नन्ति व्र॒तान्यम᳚र्धन्तो॒ वसु᳚भि॒र्याद᳚मानाः ॥
▶ पदपाठः (Word-by-word)
स॒मा॒ने । ऊ॒र्वे । अधि᳚ । सम्॑ग᳚तासः । सम् । जा॒न॒ते॒ । न । य॒त॒न्ते॒ । मि॒थः । ते ।
ते । दे॒वाना᳚म् । न । मि॒न॒न्ति॒ । व्र॒तानि᳚ । अम᳚र्धन्तः । वसु᳚॑भिः । याद᳚मानाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

समाने सर्वेषां साधारणे ऊर्वे गोसमूहे पणिभिरपत्दृते पुनर्लब्धव्ये सतिअधीत्यनर्थकः सङ्गतासो मिलिताः सन्तः ते सआनते एकबुद्धयो- भवन्ति न मिथः परस्परं यतंते सहैव साधनमनुतिष्ठन्तीत्यर्थः । तेंगिरसः देवानां व्रतानि कर्माणि यागलक्षणानि नमिनन्ति नहिंसन्ति किन्तु परिपालयन्तीत्यर्थः किंकिर्वन्तोअमर्धन्तोहिंसन्तः बसुभिर्वासकैरुषसांतेजोभिः यादमानाः गच्छन्तः ॥ ५ ॥

7.76.6
प्रति᳚ त्वा॒ स्तोमै᳚रीळते॒ वसि᳚ष्ठा उष॒र्बुधः᳚ सुभगे तुष्टु॒वांसः᳚ ।
गवां᳚ ने॒त्री वाज᳚पत्नी न उ॒च्छोषः᳚ सुजाते प्रथ॒मा ज᳚रस्व ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । त्वा॒ । स्तोमैः᳚ । ई॒ळ॒ते॒ । वसि᳚ष्ठाः । उ॒षः॒॑बुधः᳚ । सु॒॑भ॒गे॒ । तु॒स्तु॒॑वांसः᳚ ।
गवा᳚म् । ने॒त्री । वाज᳚॑पत्नी । नः॒ । उ॒च्छ॒ । उषः᳚ । सु॒॑जा॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुभगे देव्युषः त्वा त्वां प्रति उषर्बुधः उषसि बुध्यन्तः तुष्टुवांसः स्तुवन्तोवसिष्ठाः स्तोमैः स्तोत्रैः ईळते स्तुवन्ति गवां नेत्री प्रापयित्री वाजपत्नी अन्नस्य पालयित्री अन्नदात्री त्यर्थः ईदृशी त्वं नोस्मदर्थं उच्छ विभाहि । हेउषः सुजाते सुप्रादुर्भावे प्रथमाइतरदेवेभ्योमुख्य- भूता जरस्व ॥ ६ ॥

7.76.7
ए॒षा ने॒त्री राध᳚सः सू॒नृता᳚नामु॒षा उ॒च्छन्ती᳚ रिभ्यते॒ वसि᳚ष्ठैः ।
दी॒र्घ॒श्रुतं᳚ र॒यिम॒स्मे दधा᳚ना यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒षा । ने॒त्री । राध᳚सः । सू॒नृता᳚नाम् । उ॒षाः । उ॒च्छन्ती᳚ । रि॒भ्य॒ते॒ । वसि᳚ष्ठैः ।
दी॒र्घ॒॑श्रुत᳚म् । र॒यिम् । अ॒स्मे इति᳚ । दधा᳚ना । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोषा राधसः स्तोतुः सूनृतानां स्तुतीनां नेत्री सती उच्छन्ती तमोविवासयन्ती वसिष्ठैर्वसिष्ठगोत्रोत्पन्नैः रिभ्यते स्तूयते दीर्घश्रुतं दीर्घे श्रूयमाणं सर्वत्र प्रसिद्धं रयिं धनमस्मे अस्मासु दधाना धारयन्ती शिष्टं गतम् ॥ ७ ॥

उपोरुरुचेइति षळृचं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमुषस्यम् तथाचानुक्रान्तम्-उपोरुरुचेषळिति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो- विनियोगः ।