जग्मि॒र्युवा᳚ नृ॒षद᳚न॒मवो᳚भिस्त्रा॒ता न॒ इन्द्र॒ एन᳚सो म॒हश्चि᳚त् ॥
पदपाठः (Word-by-word)
जग्मिः᳚ । युवा᳚ । नृ॒॑सद᳚नम् । अवः᳚॑भिः । त्रा॒ता । नः॒ । इन्द्रः᳚ । एन᳚सः । म॒हः । चि॒त् ॥
सायणभाष्यम् (Sayana Commentary)
यस्य निःश्वसितं वेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहं वंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ तृतीयोध्याय आरभ्यते । उग्रोजज्ञइति दशर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रम्यते-उग्रोदशेति । आभिप्लविके चतुर्थेहनि निष्केवल्ये एतत्सूक्तं निविद्धानं सूत्रितं च-चतुर्थस्योग्रोजज्ञइति निष्केवल्यमिति । महाव्रतेपि निष्केवल्येएतत्सूक्तं तथैव पंचमारण्यके सूत्रितं-उग्रोजज्ञेवीर्यायस्वधावानुदुब्रह्माण्यैरतश्रवस्येति । सौमिकचातुर्मास्येषु वैश्वदेवस्य स्थाने प्रथमं पृष्ठ्यमहः तत्रापि निष्केवल्ये एतत्सूक्तंनिविद्धानं सूत्रितं च-जनिष्ठाउग्रउग्रोजज्ञइति मध्यंदिनइति ।
स्वधावान् बलवान् उग्रओजस्वी ऊद्गूर्णोवा इन्द्रः वीर्याय वीर्यं कर्तुं जज्ञे बभूव । नर्यो नरहितःसन् यत्कर्म करिष्यन् भवति तदपः कर्म चक्रिः कर्तैव । चकिरिति किन्प्रत्ययस्य लिड्वद्भावात् नलोकाव्ययनिष्ठाखलर्थतृनामिति षष्ठीप्रतिषेधः । अपिच नृषदनं यज्ञगृहं युवा नित्यतरुणःसन् अवोभीरक्षणैः सार्धं जग्मिः गन्ता महश्चित् महतोप्येनसः पापात् नोस्माकं त्राता रक्षिता च भवेति ॥ १ ॥