यस्त᳚ इन्द्र प्रि॒यो जनो॒ ददा᳚श॒दस᳚न्निरे॒के अ᳚द्रिव॒ः सखा᳚ ते ।
व॒यं ते᳚ अ॒स्यां सु᳚म॒तौ चनि᳚ष्ठा॒ः स्याम॒ वरू᳚थे॒ अघ्न᳚तो॒ नृपी᳚तौ ॥
व॒यं ते᳚ अ॒स्यां सु᳚म॒तौ चनि᳚ष्ठा॒ः स्याम॒ वरू᳚थे॒ अघ्न᳚तो॒ नृपी᳚तौ ॥
पदपाठः (Word-by-word)
यः । ते॒ । इ॒न्द्र॒ । प्रि॒यः । जनः᳚ । ददा᳚शत् । अस᳚त् । नि॒रे॒के । अ॒द्रि॒॑वः॒ । सखा᳚ । ते॒ ।
व॒यम् । ते॒ । अ॒स्याम् । सु॒॑म॒तौ । चनि᳚ष्ठाः । स्या॒म॒ । वरू᳚थे । अघ्न᳚तः । नृ॑पी᳚तौ ॥
व॒यम् । ते॒ । अ॒स्याम् । सु॒॑म॒तौ । चनि᳚ष्ठाः । स्या॒म॒ । वरू᳚थे । अघ्न᳚तः । नृ॑पी᳚तौ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र यः ते तुभ्यं प्रियः सखा जनो ददाशत् हवींषि दद्यात् । हे अद्रिवः ससखा ते तव निरेके दाने असत्स्यात् वयं च वसिष्ठाः अघ्नतो- हिंसतः ते तव अस्यां सुमतौ अनुग्रहबुद्धौ वर्तमानाश्चनिष्ठाः स्तुतिमत्तराः अतिशयेनान्नवन्तोवा चनोन्नं नृपीतौ नृणां रक्षके वरूथे गृहे वरणीये वा धने स्याम वसेम भवेम वा ॥ ८ ॥