हन्ता᳚ वृ॒त्रमिन्द्र॒ः शूशु᳚वान॒ः प्रावी॒न्नु वी॒रो ज᳚रि॒तार᳚मू॒ती ।
कर्ता᳚ सु॒दासे॒ अह॒ वा उ᳚ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे᳚ भूत् ॥
कर्ता᳚ सु॒दासे॒ अह॒ वा उ᳚ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे᳚ भूत् ॥
पदपाठः (Word-by-word)
हन्ता᳚ । वृ॒त्रम् । इन्द्रः᳚ । शूशु᳚वानः । प्र । आ॒वी॒त् । नु । वी॒रः । ज॒रि॒तार᳚म् । ऊ॒ती ।
कर्ता᳚ । सु॒॑दासे᳚ । अह᳚ । वै । ऊं॒ इति᳚ । लो॒कम् । दाता᳚ । वसु᳚ । मुहुः᳚ । आ । दा॒शुषे᳚ । भू॒त् ॥
कर्ता᳚ । सु॒॑दासे᳚ । अह᳚ । वै । ऊं॒ इति᳚ । लो॒कम् । दाता᳚ । वसु᳚ । मुहुः᳚ । आ । दा॒शुषे᳚ । भू॒त् ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रः शूशुवानोवर्धमानःसन् वृत्रमसुरं हन्ता भवति । तृन्नन्तत्वादत्रषष्ठ्यभावः वीरो वीरःसन् जरितारं स्तोतारं नु क्षिप्रं ऊती ऊत्या रक्षया प्रावीत् प्रारक्षच्च । सुदासे राज्ञे लोकं जनपदं कर्ता च । यद्वा सुदासे कल्याणदानाय यजमानाय लोकं कर्ता च भवति इहाप्युत्त- रत्रापि तृन्नन्तत्वात्षष्ठ्यभावः । अह वै उ इति त्रयः पूरणाः । दाशुषे यजमानाय वसु धनं मुहुर्भूयोभूयो दाताच भूदभूत् आइति चार्थे ॥ २ ॥