वृषा᳚ जजान॒ वृष᳚णं॒ रणा᳚य॒ तमु᳚ चि॒न्नारी॒ नर्यं᳚ ससूव ।
प्र यः से᳚ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा᳚ ग॒वेष᳚ण॒ः स धृ॒ष्णुः ॥
प्र यः से᳚ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा᳚ ग॒वेष᳚ण॒ः स धृ॒ष्णुः ॥
पदपाठः (Word-by-word)
वृषा᳚ । ज॒जा॒न॒ । वृष᳚णम् । रणा᳚य । तम् । ऊं॒ इति᳚ । चि॒त् । नारी᳚ । नर्य᳚म् । स॒सू॒व॒ ।
प्र । यः । से॒ना॒॑नीः । अध᳚ । नृ॑भ्यः᳚ । अस्ति᳚ । इ॒नः । सत्वा᳚ । गो॒॑एष᳚णः । सः । धृ॒ष्णुः ॥
प्र । यः । से॒ना॒॑नीः । अध᳚ । नृ॑भ्यः᳚ । अस्ति᳚ । इ॒नः । सत्वा᳚ । गो॒॑एष᳚णः । सः । धृ॒ष्णुः ॥
सायणभाष्यम् (Sayana Commentary)
वृषा सेक्ता पिता कश्यपो वृषणं कामानां वर्षितारमिन्द्रं रणाय युद्धार्थं जजान । जनजनने इतिधातुः नर्यं नरहितं तमु तमेवेन्द्रं नारी चित् अदितिरपि ससूव सुषुवे । अधापि च यइन्द्रो नृभ्योनॄणां सेनानीः सेनानां नेता सन् प्रास्ति प्रभवति सइन्द्रः इनः सर्वस्य जगतः ईश्वरो भवति नियुत्वान् इन इतीश्वरनामसु पाठात् सत्वा शत्रूणां सादकश्च गवेषणः गवामन्वेष्टा च धृष्णुः शत्रूणां धर्षकश्च भवतीतिशेषः ॥ ५ ॥