सप्तमं मण्डलम् - सूक्तम् 5

9 ऋचः

ऋषिः: वसिष्ठः देवता: वैश्वानरोग्निः छन्दः: त्रिष्टुप्

सूक्तम् 7.5 - सम्पूर्णम्

1 / 9
ऋक्: 7.5.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
7.5.1
प्राग्नये᳚ त॒वसे᳚ भरध्वं॒ गिरं᳚ दि॒वो अ᳚र॒तये᳚ पृथि॒व्याः ।
यो विश्वे᳚षाम॒मृता᳚नामु॒पस्थे᳚ वैश्वान॒रो वा᳚वृ॒धे जा᳚गृ॒वद्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒ग्नये᳚ । त॒वसे᳚ । भ॒र॒ध्व॒म् । गिर᳚म् । दि॒वः । अ॒र॒तये᳚ । पृ॒थि॒व्याः ।
यः । विश्वे᳚षाम् । अ॒मृता᳚नाम् । उ॒प॑स्थे᳚ । वै॒श्वा॒न॒रः । व॒वृ॒धे । जा॒गृ॒वत्॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः तवसे प्रवृद्धाय दिवोन्तरिक्षस्य पृथिव्याश्च अरतये गंत्रे अग्नये वैश्वानरसंज्ञकाय अग्नये गिरं स्तुतिं प्रभरध्वम् । यो वैश्वानरो विश्वनरहितोग्निः विश्वेषां सर्वेषाममृतानां देवानां उपस्थे उपस्थाने यज्ञे जागृवद्भिः प्रबुद्धैः देवैः सहितःसन् ववृधे स्तुतिभिर्हविर्भिश्च वर्धते ॥ १ ॥

7.5.2 समानपद
पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ᳚थि॒व्यां ने॒ता सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् ।
स मानु᳚षीर॒भि विशो॒ वि भा᳚ति वैश्वान॒रो वा᳚वृधा॒नो वरे᳚ण ॥
▶ पदपाठः (Word-by-word)
पृ॒ष्टः । दि॒वि । धायि᳚ । अ॒ग्निः । पृ॒थि॒व्याम् । ने॒ता । सिन्धू᳚नाम् । वृ॒ष॒भः । स्तिया᳚नाम् ।
सः । मानु᳚षीः । अ॒भि । विशः᳚ । वि । भा॒ति॒ । वै॒श्वा॒न॒रः । व॒वृ॒धा॒नः । वरे᳚ण ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धूनां नदीनां नेता स्तियानां अपां स्तिया आपोभवन्ति स्त्यायनादिति यास्कवचनात् । वृषभो वर्षिता पृष्टोर्चितस्तेजसा संपृक्तो वा योग्निः दिव्यन्तरिक्षे पृथिव्यां च धायिन्यधायि । स वैश्वानरो विश्वनरहितोग्निः वरेण श्रेष्ठेन हविषा तेजसा वा वावृधानो वर्धमानःसन् मानुषीर्विशोभिमानुषीः प्रजाः प्रति विभाति ॥ २ ॥

7.5.3 समानपद
त्वद्भि॒या विश᳚ आय॒न्नसि᳚क्नीरसम॒ना जह᳚ती॒र्भोज᳚नानि ।
वैश्वा᳚नर पू॒रवे॒ शोशु᳚चान॒ः पुरो॒ यद᳚ग्ने द॒रय॒न्नदी᳚देः ॥
▶ पदपाठः (Word-by-word)
त्वत् । भि॒या । विशः᳚ । आ॒य॒न् । असि᳚क्नीः । अ॒स॒म॒नाः । जह᳚तीः । भोज᳚नानि ।
वैश्वा᳚नर । पू॒रवे᳚ । शोशु᳚चानः । पुरः᳚ । यत् । अ॒ग्ने॒ । द॒रय᳚न् । अदी᳚देः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वैश्वानर विश्वनसहिताग्ने त्वत् त्वत्तो भिया भीत्या असिक्रीः असितवर्णाः राजस्यः प्रथमार्थे द्वितीया विशः प्रजाः असमनाः परस्परमसमेताः भोजनानि धनानि जहतीः त्यजन्त्यः आयन् आगच्छन् । कदेत्यत आह यद्यदा पूरवे राज्ञे शोशुचानो दीप्यमानः पुरस्त- स्य शत्रूणां पुरो दरयन् दारयन् अदीदेः अज्वलः तथा च निगमः-अंहोराजन् वरिवःपूरवेकरिति ॥ ३ ॥

7.5.4
तव᳚ त्रि॒धातु᳚ पृथि॒वी उ॒त द्यौर्वैश्वा᳚नर व्र॒तम᳚ग्ने सचन्त ।
त्वं भा॒सा रोद᳚सी॒ आ त᳚त॒न्थाज᳚स्रेण शो॒चिषा॒ शोशु᳚चानः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्रि॒॑धातु᳚ । पृ॒थि॒वी । उ॒त । द्यौः । वैश्वा᳚नर । व्र॒तम् । अ॒ग्ने॒ । स॒च॒न्त॒ ।
त्वम् । भा॒सा । रोद᳚सी॒ इति᳚ । आ । त॒त॒न्थ॒ । अज᳚स्रेण । शो॒चिषा᳚ । शोशु᳚चानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वैश्वानर विश्वेषां नराणां नेतरग्ने तथा च यास्कः-वेश्वानरः कस्माद्विश्वान्नरान्नयति विश्व एनं नरा नयन्तीति वेति । तव व्रतं त्वत्प्रीति- करं कर्म त्रिधातु अन्तरिक्षं पृथिवी च उतापि च द्यौरिति त्रयो लोकाः सचन्ते सेवन्ते त्रैलोक्यवर्तिन्यः प्रजाः त्वदर्थं कर्म कुर्वन्तीत्यर्थः । अपि च त्वं अजस्रेण नित्येन शोचिषा प्रकाशेन शोशुचानो दीप्यमानो भासा दीप्त्या रोदसी द्यावापृथिव्यौ चाततंथ विस्तारयसि ॥ ४ ॥

7.5.5 समानपद
त्वाम᳚ग्ने ह॒रितो᳚ वावशा॒ना गिरः᳚ सचन्ते॒ धुन᳚यो घृ॒ताची᳚ः ।
पतिं᳚ कृष्टी॒नां र॒थ्यं᳚ रयी॒णां वै᳚श्वान॒रमु॒षसां᳚ के॒तुमह्ना᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । ह॒रितः᳚ । वा॒व॒शा॒नाः । गिरः᳚ । स॒च॒न्ते॒ । धुन᳚यः । घृ॒ताचीः᳚ ।
पति᳚म् । कृ॒ष्टी॒नाम् । र॒थ्य᳚म् । र॒यी॒णाम् । वै॒श्वा॒न॒रम् । उ॒षसा᳚म् । के॒तुम् । अह्ना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने कृष्टीनां क्षितयः कृष्टय इति मनुष्यनामसु पाठात् पतिं स्वामिनं रयीणां धनानां रथ्यं नेतारं उषसामह्नां महान्तं केतुं प्रज्ञापकं वैश्वानरं विश्वनरहितं त्वां हरितोश्वाः वावशा नाः कामयमानाः सचन्ते सेवन्ते तथा गिरो नृणां स्तुतिरूपावाचः धुनयः पापं धुन्वानाः घृता चीः घृतमंचंत्यः हविषासहिता इत्यर्थः सचन्ते ॥ ५ ॥

7.5.6
त्वे अ᳚सु॒र्यं१॒᳚ वस᳚वो॒ न्यृ᳚ण्व॒न्क्रतुं॒ हि ते᳚ मित्रमहो जु॒षन्त᳚ ।
त्वं दस्यू{4}॒रोक᳚सो अग्न आज उ॒रु ज्योति᳚र्ज॒नय॒न्नार्या᳚य ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । अ॒सु॒र्य᳚म् । वस᳚वः । नि । ऋ॒ण्व॒न् । क्रतु᳚म् । हि । ते॒ । मि॒त्र॒॑म॒हः॒ । जु॒षन्त᳚ ।
त्वम् । दस्यू᳚न् । ओक᳚सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः᳚ । ज॒नय᳚न् । आर्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रमहः मित्राणां पूजयितरग्ने त्वे त्वयि वसवो वासकादेव असुर्यं बलं न्यृण्वन् न्यगमयन् । ते क्रतुं त्वत्प्रीतिकरं कर्म जुषन्त असेवन्त- हि । किं च त्वं आर्याय कर्मवते जनाय उरु ज्योतिः अधिकं तेजो जनयन् दस्यून् कर्महीनान् ओकसः स्थानात् आजः निरगमयः ॥ ६ ॥

7.5.7
स जाय᳚मानः पर॒मे व्यो᳚मन्वा॒युर्न पाथ॒ः परि᳚ पासि स॒द्यः ।
त्वं भुव᳚ना ज॒नय᳚न्न॒भि क्र॒न्नप᳚त्याय जातवेदो दश॒स्यन् ॥
▶ पदपाठः (Word-by-word)
सः । जाय᳚मानः । प॒र॒मे । वि॑ओ᳚मन् । वा॒युः । न । पाथः᳚ । परि᳚ । पा॒सि॒ । स॒द्यः ।
त्वम् । भुव᳚ना । ज॒नय᳚न् । अ॒भि । क्र॒न् । अप᳚त्याय । जा॒त॒॑वे॒दः॒ । द॒श॒स्यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वैश्वानर सप्रसिद्धः त्वं परमे दूरस्थे व्योमन्नन्तरिक्षे जायमानः सूर्यरूपेण प्रादुर्भवन् वायुर्न यथा वायुः द्विदेवत्यग्रहेषु प्रथमं सोमं पिबति तथा पाथः सोमं सद्यः परिपासि परिपिबसि यद्वा वायुरिव पाथो जलं परिपासि परिपिबसि शोषयसीत्यर्थः । किं च हे जातवेदः जातधनाग्ने त्वं भुवना भुवनानि उदकानि भूतं भुवनमित्युदक नामसु पाठात् जनयन् अपत्याय अपत्यवत्पालनीयाय यजमानाय दशस्यन् कामांश्च यच्छन् अभिक्रतून् वैद्युतात्मना अभिक्रन्दसि अभिगर्जसि वा ॥ ७ ॥

7.5.8
ताम᳚ग्ने अ॒स्मे इष॒मेर᳚यस्व॒ वैश्वा᳚नर द्यु॒मतीं᳚ जातवेदः ।
यया॒ राध॒ः पिन्व᳚सि विश्ववार पृ॒थु श्रवो᳚ दा॒शुषे॒ मर्त्या᳚य ॥
▶ पदपाठः (Word-by-word)
ताम् । अ॒ग्ने॒ । अ॒स्मे इति᳚ । इष᳚म् । आ । ई॒र॒य॒स्व॒ । वैश्वा᳚नर । द्यु॒॑मती᳚म् । जा॒त॒॑वे॒दः॒ ।
यया᳚ । राधः᳚ । पिन्व᳚सि । वि॒श्व॒॑वा॒र॒ । पृ॒थु । श्रवः᳚ । दा॒शुषे᳚ । मर्त्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदः जातप्रज्ञ वैश्वानर विश्वनरहिताग्ने तामिषं एषणीयां वृष्टिं द्युमतीं दीप्तिमतीं अस्मे अस्मभ्यं एरयस्व प्रेरयस्व । वृष्ट्या त्रैलोक्यं द्योतते हि । यद्वा यथा द्युमतीं तामिषमन्नमे रयस्व तथा च श्रूयते-तस्माद्यस्यैवैहभूयिष्ठमन्नंभवतिसएवभूयिष्ठंलोकेविराज- तीति । अथवा इषमेषणीयां तां द्युमतीं भास्वतीं दीप्तिमेरयस्व यया इषा रायो धनं पिन्वसि पालयसि अपि च हे विश्ववार विश्वै- र्वरणीयाग्ने पृथु विस्तीर्णं श्रवो यशः दाशुषे मर्त्याय यजमानाय पिन्वसि ॥ ८ ॥

7.5.9
तं नो᳚ अग्ने म॒घव᳚द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं᳚ युवस्व ।
वैश्वा᳚नर॒ महि᳚ न॒ः शर्म᳚ यच्छ रु॒द्रेभि᳚रग्ने॒ वसु᳚भिः स॒जोषा᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । नः॒ । अ॒ग्ने॒ । म॒घव᳚त्॑भ्यः । पु॒रु॒॑क्षुम् । र॒यिम् । नि । वाज᳚म् । श्रुत्य᳚म् । यु॒व॒स्व॒ ।
वैश्वा᳚नर । महि᳚ । नः॒ । शर्म᳚ । य॒च्छ॒ । रु॒द्रेभिः᳚ । अ॒ग्ने॒ । वसु᳚॑भिः । स॒॑जोषाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने मघवड्मो धनवड्मः हविष्मड्मइत्यर्थः नोस्मभ्यं पुरुक्षुं बह्वन्नं बहुयशस्कं वा तं प्रसिद्धं रयिं श्रुत्यं श्रवणीयं वाजं बलं च नियुवस्व नितरां मिश्रयस्व । किं च हे वैश्वानर विश्वनरहिताग्ने त्वं रुद्रेभिः रुद्रैर्वसुभिश्च देवैः सजोषाः सहितश्चसन् नोस्मभ्यं महि महत् शर्म सुखं यच्छ प्रयच्छ ॥ ९ ॥

प्रसम्राज इति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षं अनुक्रम्यते च-प्र्सम्राजः सप्त वैश्वानरीयं त्वित्युक्तत्वात् अस्यापि वैश्वानरोग्निर्देवता । विनियोगो लैङ्गिकः ।