श्रवणम्

7.5.6
त्वे अ᳚सु॒र्यं१॒᳚ वस᳚वो॒ न्यृ᳚ण्व॒न्क्रतुं॒ हि ते᳚ मित्रमहो जु॒षन्त᳚ ।
त्वं दस्यू{4}॒रोक᳚सो अग्न आज उ॒रु ज्योति᳚र्ज॒नय॒न्नार्या᳚य ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । अ॒सु॒र्य᳚म् । वस᳚वः । नि । ऋ॒ण्व॒न् । क्रतु᳚म् । हि । ते॒ । मि॒त्र॒॑म॒हः॒ । जु॒षन्त᳚ ।
त्वम् । दस्यू᳚न् । ओक᳚सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः᳚ । ज॒नय᳚न् । आर्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रमहः मित्राणां पूजयितरग्ने त्वे त्वयि वसवो वासकादेव असुर्यं बलं न्यृण्वन् न्यगमयन् । ते क्रतुं त्वत्प्रीतिकरं कर्म जुषन्त असेवन्त- हि । किं च त्वं आर्याय कर्मवते जनाय उरु ज्योतिः अधिकं तेजो जनयन् दस्यून् कर्महीनान् ओकसः स्थानात् आजः निरगमयः ॥ ६ ॥