सप्तमं मण्डलम् - सूक्तम् 21

10 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 7.21 - सम्पूर्णम्

1 / 10
ऋक्: 7.21.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
7.21.1
असा᳚वि दे॒वं गोऋ᳚जीक॒मन्धो॒ न्य᳚स्मि॒न्निन्द्रो᳚ ज॒नुषे᳚मुवोच ।
बोधा᳚मसि त्वा हर्यश्व य॒ज्ञैर्बोधा᳚ न॒ः स्तोम॒मन्ध᳚सो॒ मदे᳚षु ॥
▶ पदपाठः (Word-by-word)
असा᳚वि । दे॒वम् । गो॑ऋ᳚जीकम् । अन्धः᳚ । नि । अ॒स्मि॒न् । इन्द्रः᳚ । ज॒नुषा᳚ । ई॒म् । उ॒वो॒च॒ ।
बोधा᳚मसि । त्वा॒ । ह॒रि॒॑अ॒श्व॒ । य॒ज्ञैः । बोध᳚ । नः॒ । स्तोम᳚म् । अन्ध᳚सः । मदे᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवं दीप्तं गोऋजीकं गोभिः संस्कृतं गव्येन मिश्रितमित्यर्थः अंधः सोमरूपमन्नं असावि अभिषुतम् । ईमयमिन्द्रोस्मिन्नभिषुते सोमरूपधसि जनुषा स्वभावतएव न्युवोच नितरां संगतो भवति । अथ प्रत्यक्षस्तुतिः हे हर्यश्व त्वा त्वां यज्ञैः स्तोत्रैः हविर्भिर्वा बोधामसि बोधयामः । अन्धसः सोमस्य मदेषु नोस्माकं स्तोमं स्तोत्रं बोध बुध्यस्व च ॥ १ ॥

7.21.2
प्र य᳚न्ति य॒ज्ञं वि॒पय᳚न्ति ब॒र्हिः सो᳚म॒मादो᳚ वि॒दथे᳚ दु॒ध्रवा᳚चः ।
न्यु᳚ भ्रियन्ते य॒शसो᳚ गृ॒भादा दू॒रउ᳚पब्दो॒ वृष᳚णो नृ॒षाचः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय᳚न्ति । ब॒र्हिः । सो॒म॒॑मादः᳚ । वि॒दथे᳚ । दु॒ध्र॑वा᳚चः ।
नि । ऊं॒ इति᳚ । भ्रि॒य॒न्ते॒ । य॒शसः᳚ । गृ॒भात् । आ । दू॒रे॑उ᳚पब्दः । वृष᳚णः । नृ॒॑साचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञंप्रयन्ति यष्टारः बर्हिश्च विपयन्ति स्तृणन्ति । विपिः स्तरणकर्मा विदथे यज्ञे सोममादोग्रावाणश्च दुध्रवाचः दुर्धरवाचोभवन्ति । अपि च यशसो यशस्विनो दूरउपब्दः दूरेउपब्दिः शब्दो येषां ते दूरउपब्दः नृषाचः नॄन्नेतॄनृत्विजः सचन्तइति नृषाचो वृषणो ग्रावाणो गृभात् गृहात् गृहमध्यमग्रावा तस्मात् आइति चार्थे निभ्रियन्ते अभिषववेलायां निगृह्यन्ते । उइति परणः ॥ २ ॥

7.21.3 समानपद
त्वमि᳚न्द्र॒ स्रवि᳚त॒वा अ॒पस्क॒ः परि᳚ष्ठिता॒ अहि᳚ना शूर पू॒र्वीः ।
त्वद्वा᳚वक्रे र॒थ्यो॒३॒᳚ न धेना॒ रेज᳚न्ते॒ विश्वा᳚ कृ॒त्रिमा᳚णि भी॒षा ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । स्रवि᳚त॒वै । अ॒पः । क॒रिति᳚ कः । परि᳚॑स्थिताः । अहि᳚ना । शू॒र॒ । पू॒र्वीः ।
त्वत् । वा॒व॒क्रे॒ । र॒थ्यः᳚ । न । धेनाः᳚ । रेज᳚न्ते । विश्वा᳚ । कृ॒त्रिमा᳚णि । भी॒षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूरेन्द्र त्वं अहि ना वृत्रेण परिष्ठिता आक्रान्ताः पूर्वीर्बह्वीरपउदकानि स्रवितवै स्रवितुं कः अकार्षीः धेनाः नद्यश्च त्वत् त्वत्तोहेतोः रथ्योन रथिनइव वावके निर्गच्छन्ति । वकिकौटिल्ये इति धातुः । विश्वा विश्वानि कृत्रिमाणि भुवनानि च भीषा त्वत्तोभीत्या रेजन्ते कंपन्ते ॥ ३ ॥

7.21.4
भी॒मो वि᳚वे॒षायु᳚धेभिरेषा॒मपां᳚सि॒ विश्वा॒ नर्या᳚णि वि॒द्वान् ।
इन्द्र॒ः पुरो॒ जर्हृ᳚षाणो॒ वि दू᳚धो॒द्वि वज्र᳚हस्तो महि॒ना ज᳚घान ॥
▶ पदपाठः (Word-by-word)
भी॒मः । वि॒वे॒ष॒ । आयु᳚धेभिः । ए॒षा॒म् । अपां᳚सि । विश्वा᳚ । नर्या᳚णि । वि॒द्वान् ।
इन्द्रः᳚ । पुरः᳚ । जर्हृ᳚षाणः । वि । दू॒धो॒त् । वि । वज्र᳚॑हस्तः । म॒हि॒ना । ज॒घा॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रो नर्याणि नरहितानि विश्वा विश्वानि अपांसि कर्माणि विद्वान् जानन् आयुधेभिरायुधैः भीमो भयंकरःसन् एषां कर्मणिषष्ठी एतान- सुरान् विवेष व्याप्तवान् पुरश्च तेषां विदूधोदकंपयत् । अपि च जर्हषाणः हृष्यन् महिना महिम्ना युक्तो वज्रहस्तःसन् तान्विजघान ॥ ४ ॥

7.21.5
न या॒तव᳚ इन्द्र जूजुवुर्नो॒ न वन्द᳚ना शविष्ठ वे॒द्याभि᳚ः ।
स श᳚र्धद॒र्यो विषु᳚णस्य ज॒न्तोर्मा शि॒श्नदे᳚वा॒ अपि᳚ गुरृ॒तं नः᳚ ॥
▶ पदपाठः (Word-by-word)
न । या॒तवः᳚ । इ॒न्द्र॒ । जू॒जु॒वुः॒ । नः॒ । न । वन्द᳚ना । श॒वि॒ष्ठ॒ । वे॒द्याभिः᳚ ।
सः । श॒र्ध॒त् । अ॒र्यः । विषु᳚णस्य । ज॒न्तोः । मा । शि॒श्न॑दे᳚वाः । अपि᳚ । गुः॒ । ऋ॒तम् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यातवोराक्षसाः नोस्मान् न जूजुवुः न हिंस्युः । जूजुवुरिति हिंसाक्रियः पृथक्वरणकियोवा । अपि च हेशविष्ठ बलवत्तमेन्द्र वन्दना वन्दनानि रक्षांसि वेद्याभिः वेद्याभ्यः प्रजाभ्योनोस्मान् नजूजुवुः नपृथक्वुर्वन्तु । किं च अर्यः स्वामी सइन्द्रः विषुणस्य विषमस्य जन्तोः प्राणिनः शासने शर्धत् उत्सहेत । अथच शिश्नदेवाः शिश्नेन दीव्यन्ति क्रीडन्तइति शिश्नदेवाः अब्रह्मचर्याइत्यर्थः नोस्माकं ऋतं यज्ञं सत्यं वा मापिगुः मापिगमन् । तथा च यास्कः-सउत्सहतां योविषुणस्यजन्तोर्विषमस्य माशिश्नदेवाअब्रह्मचर्याः शिश्नं श्नथतेः अपिगुरृतंनः सत्यंवा यज्ञंवेति ॥ ५ ॥

7.21.6 समानपद
अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते᳚ विव्यङ्महि॒मानं॒ रजां᳚सि ।
स्वेना॒ हि वृ॒त्रं शव᳚सा ज॒घन्थ॒ न शत्रु॒रन्तं᳚ विविदद्यु॒धा ते᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । क्रत्वा᳚ । इ॒न्द्र॒ । भूः॒ । अध᳚ । ज्मन् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान᳚म् । रजां᳚सि ।
स्वेन᳚ । हि । वृ॒त्रम् । शव᳚सा । ज॒घन्थ᳚ । न । शत्रुः᳚ । अन्त᳚म् । वि॒वि॒द॒त् । यु॒धा । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं क्रत्वा कर्मणा ज्मन् पृथिव्यां वर्तमानान् जन्तून्वा अभिभूः अभ्यभूः अधापिच ते तव महिमानं रजांसि सर्वेलोका न विव्यक् व्यचिर्व्याप्तिकर्मा न व्याप्नुवन्नित्यर्थः स्वेन हि आत्मीयेन च शवसा बलेन वृत्रं जघंथ त्वमवधीः शत्रुश्च युधा युद्धेन ते तवांतं हिंसां न विविदत् नलब्धवान् ॥ ६ ॥

7.21.7
दे॒वाश्चि᳚त्ते असु॒र्या᳚य॒ पूर्वे॑नु᳚ क्ष॒त्राय᳚ ममिरे॒ सहां᳚सि ।
इन्द्रो᳚ म॒घानि᳚ दयते वि॒षह्येन्द्रं॒ वाज᳚स्य जोहुवन्त सा॒तौ ॥
▶ पदपाठः (Word-by-word)
दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या᳚य । पूर्वे᳚ । अनु᳚ । क्ष॒त्राय᳚ । म॒मि॒रे॒ । सहां᳚सि ।
इन्द्रः᳚ । म॒घानि᳚ । द॒य॒ते॒ । वि॒॑सह्य᳚ । इन्द्र᳚म् । वाज᳚स्य । जो॒हु॒व॒न्त॒ । सा॒तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वे देवाश्चित् असुरा अपि असुर्याय बलाय क्षत्राय क्षदिर्हिंसाकर्मा बलं हिंसां च उभे कर्तुमित्यर्थः । हे इन्द्र ते तव सहांसि बलानि अनुम- मिरे । हीने इत्यनुः कर्मप्रवचनीयः । तव बलेभ्योहीना ममिरे इत्यर्थः । तथा च निगमान्तरं-अनुतेद्यौर्बृहतीवीर्यंममइति । अथपरोक्षस्तु- तिः इन्द्रः शत्रून् विषह्य मघानि मंहनीयानि धनानि दयते भक्तेभ्यः प्रयच्छति अपि चेन्द्रं वाजस्यान्नस्य सातौ लाभार्थं जोहुवन्त स्तुव- न्ति स्तोतारआह्वयन्ति वा ॥ ७ ॥

7.21.8
की॒रिश्चि॒द्धि त्वामव᳚से जु॒हावेशा᳚नमिन्द्र॒ सौभ᳚गस्य॒ भूरे᳚ः ।
अवो᳚ बभूथ शतमूते अ॒स्मे अ᳚भिक्ष॒त्तुस्त्वाव᳚तो वरू॒ता ॥
▶ पदपाठः (Word-by-word)
की॒रिः । चि॒त् । हि । त्वाम् । अव᳚से । जु॒हाव᳚ । ईशा᳚नम् । इ॒न्द्र॒ । सौभ᳚गस्य । भूरेः᳚ ।
अवः᳚ । ब॒भू॒थ॒ । श॒त॒म्॑ऊ॒ते॒ । अ॒स्मे इति᳚ । अ॒भि॒॑क्ष॒त्तुः । त्वा॑व᳚तः । व॒रू॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ईशानं त्वां कीरिः स्तोता कारुः कीरिरिति स्तोतृनामसु पाठात् वसिष्ठोऽवसे रक्षणाय जुहाव हि स्तौति हि ह्वयति वा । चिदिति पूरणः अपि च हे शतमूते बहुरक्षेन्द्र अस्मे अस्माकं भूरेः प्रभूतस्य सौभगस्य धनस्य अवोरक्षा बभूथ बभूविथ अभिक्षत्तुरहिंस- कस्य त्वावतः त्वत्सदृशस्य वरूता वारयितश्च भव ॥ ८ ॥

7.21.9
सखा᳚यस्त इन्द्र वि॒श्वह᳚ स्याम नमोवृ॒धासो᳚ महि॒ना त᳚रुत्र ।
व॒न्वन्तु᳚ स्मा॒ ते॑व᳚सा समी॒के॒३॒᳚॑भी᳚तिम॒र्यो व॒नुषां॒ शवां᳚सि ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह᳚ । स्या॒म॒ । न॒मः॒॑वृ॒धासः᳚ । म॒हि॒ना । त॒रु॒त्र॒ ।
व॒न्वन्तु᳚ । स्म॒ । ते॒ । अव᳚सा । स॒मी॒के । अ॒भि॑इ᳚तिम् । अ॒र्यः । व॒नुषा᳚म् । शवां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव नमोवृधासो नमसा स्तुत्या हविषा वा वर्धयितारो वयं विश्वह सर्वदा सखायः स्याम भवेम महिना महिम्ना तरुत्रः अत्यं- ततारकेन्द्र ते तवावसा रक्षणेन समीके संग्रामे अर्योभीतिमभिगमनं वनुषां हिंसकानां शवांसि बलानि च वन्वन्तु स्तोतारो हिंसन्तु ॥ ९ ॥

7.21.10
स न᳚ इन्द्र॒ त्वय᳚ताया इ॒षे धा॒स्त्मना᳚ च॒ ये म॒घवा᳚नो जु॒नन्ति᳚ ।
वस्वी॒ षु ते᳚ जरि॒त्रे अ᳚स्तु श॒क्तिर्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । इ॒न्द्र॒ । त्व॑य᳚तायै । इ॒षे । धाः॒ । त्मना᳚ । च॒ । ये । म॒घ॑वा᳚नः । जु॒नन्ति᳚ ।
वस्वी᳚ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमृक् व्याख्यातचरा ॥ १० ॥

पिबासोममिन्द्रमन्दतुत्वेति नवर्चं पंचमं सूक्तम् । अनुक्रम्यते च-पिबनव वैराजमृतेंत्यामिति । वसिष्ठऋषिः आदितोष्टौविराजः नवमी- त्रिष्टुबिन्द्रोदेवता दशरात्रे चतुर्थेहनि निष्केवल्यशस्त्रे पिबासोममिन्द्रेतिषट् स्तोत्रियानुरूपौ सूत्रितं च-वैराजंचेत्पृष्ठं पिबासोममिन्द्रमन्द- तुत्वेति षट्स्तोत्रियानुरूपाविति । महाव्रतेपि निष्केवल्येआद्याः षळृचः सूत्रितं च-पिबासोममिन्द्रमन्दतुत्वेति षळिति । आद्या निष्के- वल्यशस्त्रयाज्या सूत्रितं च-पिबासोममिन्द्रमन्दतुत्वेति याज्येति । चतुर्थेहनि माध्यंदिने सवने होत्रकशस्त्रेषु सप्तविराजः त्रींस्तृचान्- कृत्वाएकैकस्तृचः शंसनीयः तत्र नतेगिरइत्याद्याश्चतस्रऋचः सूत्रितं च-नतेगिरोअपिमृष्येतुरस्य प्रवोमहेमहिवृधेभरध्वमिति ।