उपो᳚ ते॒ अन्धो॒ मद्य᳚मयामि॒ यस्य᳚ देव दधि॒षे पू᳚र्व॒पेय᳚म् ॥
पदपाठः (Word-by-word)
उपो॒ इति᳚ । ते॒ । अन्धः᳚ । मद्य᳚म् । अ॒या॒मि॒ । यस्य᳚ । दे॒व॒ । द॒धि॒षे । पू॒र्व॒॑पेय᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे शुचिपाः शुचेः शुद्धस्य सोमस्य पातर्वायो नोस्माकं उपसमीपे आभूष आगच्छ भूप्राप्तावित्यस्यैतद्रूपम् हे विश्ववार विश्वैर्वरणीय ते तव वाहनभूताः नियुतोवडवाः सहस्रं सहस्रसङ् ख्याका विद्यन्ते यतएवं अतः शीघ्रमागच्छ । ते तव मद्यं मदकरं सोमलक्षणमन्धोन्नं उपो उप उपायामि उपयतं पात्रे गृहीतमासीत् । हे देव वायो यस्य सोमस्य पूर्वपेयं प्रथमपानं दधिषे दधासि धारयसि ऎन्द्रवायवग्रहे प्रथमे वषट्कारे केवलाय वायवे हूयते द्वितीये तु इन्द्रवायुभ्यामिति वायोः प्रथमपानं तादृशमन्धः उपायामीत्यन्वयः ॥ १ ॥ प्रथमे छन्दोमे प्रउगशस्त्रे ऎन्द्रवायतृचस्य प्रसोतेत्याद्या सूत्रितञ्च-प्रसोताजीरो अध्वरेष्वस्थाद्येवायवइन्द्रमादनासइति ।