श्रवणम्

7.92.5
आ नो᳚ नि॒युद्भि᳚ः श॒तिनी᳚भिरध्व॒रं स᳚ह॒स्रिणी᳚भि॒रुप᳚ याहि य॒ज्ञम् ।
वायो᳚ अ॒स्मिन्त्सव᳚ने मादयस्व यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । नि॒युत्॑भिः᳚ । श॒तिनी᳚भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी᳚भिः । उप᳚ । या॒हि॒ । य॒ज्ञम् ।
वायो॒ इति᳚ । अ॒स्मिन् । सव᳚ने । मा॒द॒य॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो नोस्माकं अध्वरं हिंसारहितं यज्ञं शतिनीभिः शतसंख्यावतीभिः सहस्रिणीभिः सहस्रसंख्यावतीभिश्च नियुद्भिर्वडवाभिः उपा- याहि उपागच्छ तदनन्तरं अस्मिन् सवने प्रातः सवने मादयस्व सोमेन तृप्यस्व अन्यद्गतम् ॥ ५ ॥

शुचिंभि यष्टर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्राग्नं अनुक्रम्यते हि शुचिंन्वष्टावैन्द्राग्नंत्विति । गतः सूक्तविनियोगः ऎन्द्राग्नस्य पशोर्वपायाः शुचिमित्येषायाज्या सूत्रितञ्च-शुचिंनुस्तोमंनवजातमद्य गीर्भिर्विप्रः प्रमतिमिच्छमानइति ।