प्र याभि॒र्यासि᳚ दा॒श्वांस॒मच्छा᳚ नि॒युद्भि᳚र्वायवि॒ष्टये᳚ दुरो॒णे ।
नि नो᳚ र॒यिं सु॒भोज᳚सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं᳚ च॒ राधः᳚ ॥
नि नो᳚ र॒यिं सु॒भोज᳚सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं᳚ च॒ राधः᳚ ॥
पदपाठः (Word-by-word)
प्र । याभिः᳚ । यासि᳚ । दा॒श्वांस᳚म् । अच्छ᳚ । नि॒युत्॑भिः᳚ । वा॒यो॒ इति᳚ । इ॒ष्टये᳚ । दु॒रो॒णे ।
नि । नः॒ । र॒यिम् । सु॒॑भोज᳚सम् । यु॒व॒स्व॒ । नि । वी॒रम् । गव्य᳚म् । अश्व्य᳚म् । च॒ । राधः᳚ ॥
नि । नः॒ । र॒यिम् । सु॒॑भोज᳚सम् । यु॒व॒स्व॒ । नि । वी॒रम् । गव्य᳚म् । अश्व्य᳚म् । च॒ । राधः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वायो दुरोणे यज्ञगृहे स्थितं दाश्वांसं हविषां दातारं यजमानं इष्टये यागाय याभिर्नियुद्भिर्वडवाभिरच्छ यासि अभिगच्छसि ताभि- रस्मान् प्रत्यागच्छेति शेषः । आगत्यच नोस्मभ्यं सुभोजसं शोभनान्नयुक्तं रयिं धनं नियुवस्व नितरां मिश्रय प्रयच्छ । तथा वीरं पुत्रं गव्यं गोसंघं अश्व्यमश्वसंघं एतदुभयात्मकं राधोधनञ्च नियुवस्व प्रयच्छ ॥ ३ ॥