श्रवणम्

7.92.4
ये वा॒यव᳚ इन्द्र॒माद᳚नास॒ आदे᳚वासो नि॒तोश᳚नासो अ॒र्यः ।
घ्नन्तो᳚ वृ॒त्राणि᳚ सू॒रिभि᳚ः ष्याम सास॒ह्वांसो᳚ यु॒धा नृभि᳚र॒मित्रा᳚न् ॥
▶ पदपाठः (Word-by-word)
ये । वा॒यवे᳚ । इ॒न्द्र॒॑माद᳚नासः । आ॑दे᳚वासः । नि॒॑तोश᳚नासः । अ॒र्यः ।
घ्नन्तः᳚ । वृ॒त्राणि᳚ । सू॒रि॑भिः᳚ । स्या॒म॒ । स॒स॒ह्वांसः᳚ । यु॒धा । नृ॑भिः᳚ । अ॒मित्रा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये सूरयः स्तोतारः इन्द्रमादनासः स्तोत्रैरिन्द्रस्य तपेयितारः तथा वायवे वायोश्चमादनास्तर्पका भवन्ति येच आदेवासः आगतैः देवै- रुपेताः अतएव अर्यः अरेः शत्रोर्नितोशनासो निहन्तारः तैरस्मदीयैः सूरिभिः स्तोतृभिः वृत्राणि शत्रून् घ्रन्तः हिसन्तः स्याम भवेम किंकुर्वन्तः अमित्रान् शत्रूभटान् नृभिरस्मदीयैः पुरुषैः युधा युद्धेभिः ससह्वांसोभिभवन्तः ॥ ४ ॥ नियुत्वद्वायुदेवताके पशौ आनोनियुद्भिरिति हविषोनुवाक्या सूत्रितञ्च-आनोनियुद्भिः शतिनीभिरध्वरंपीवो अन्नाँरयिवृधः सिमेधाइति । प्रथमे छन्दोमे प्रउगे वायव्यतृचस्यैषैव तृतीया सूत्रितदञ्च-आनोनीयुद्भिःशतिनीभिरध्वरंप्रसोताजीरोअध्वरेष्वस्थादिति ।