सप्तमं मण्डलम् - सूक्तम् 65

5 ऋचः

ऋषिः: वसिष्ठः देवता: मित्रावरुणौ छन्दः: त्रिष्टुप्

सूक्तम् 7.65 - सम्पूर्णम्

1 / 5
ऋक्: 7.65.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
7.65.1
प्रति᳚ वां॒ सूर॒ उदि᳚ते सू॒क्तैर्मि॒त्रं हु᳚वे॒ वरु᳚णं पू॒तद᳚क्षम् ।
ययो᳚रसु॒र्य१॒᳚मक्षि᳚तं॒ ज्येष्ठं॒ विश्व᳚स्य॒ याम᳚न्ना॒चिता᳚ जिग॒त्नु ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । वा॒म् । सूरे᳚ । उत्॑इ᳚ते । सु॒॑उ॒क्तैः । मि॒त्रम् । हु॒वे॒ । वरु᳚णम् । पू॒त॑द᳚क्षम् ।
ययोः᳚ । अ॒सु॒र्य᳚म् । अक्षि᳚तम् । ज्येष्ठ᳚म् । विश्व᳚स्य । याम᳚न् । आ॒॑चिता᳚ । जि॒ग॒त्नु ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूरे सूर्ये उदिते प्रातःसवने मित्रं पूतदक्षं शुद्धबलं वरुणं वां सूक्तैः प्रतिहुवे आह्वये ययोर्मित्रावरुणयोः अक्षितं अक्षिणं अतएव ज्येष्ठं असुर्यं बलं आचिता आचिते उपाचिते शूरसंघैरुपेते यामन्यामनि संग्रामे विश्वस्य शत्रुसंघस्य जिगत्नु जेतृ भवति ॥ १ ॥

7.65.2
ता हि दे॒वाना॒मसु᳚रा॒ ताव॒र्या ता नः᳚ क्षि॒तीः क᳚रतमू॒र्जय᳚न्तीः ।
अ॒श्याम᳚ मित्रावरुणा व॒यं वां॒ द्यावा᳚ च॒ यत्र᳚ पी॒पय॒न्नहा᳚ च ॥
▶ पदपाठः (Word-by-word)
ता । हि । दे॒वाना᳚म् । असु᳚रा । तौ । अ॒र्या । ता । नः॒ । क्षि॒तीः । क॒र॒त॒म् । ऊ॒र्जय᳚न्तीः ।
अ॒श्याम᳚ । मि॒त्रा॒व॒रु॒णा॒ । व॒यम् । वा॒म् । द्यावा᳚ । च॒ । यत्र᳚ । पी॒पय᳚न् । अहा᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता हि तौ खलु देवौ देवानां मध्ये असुरा बलवन्तौ अर्या अर्यौ तौ सर्वस्येश्वरौ ता तौ नोस्माकं क्षितीः पुत्रादिरूपाः प्रजा ऊर्जयन्तीः प्रवृद्धाः करतं कुरुतम् । हे मित्रावरुणा मित्रावरुणौ वयं वां युवां अश्याम व्याप्नुयाम यत्र यस्यां युवयोर्व्याप्तौ द्यावा द्यावापृथिव्यौ सर्वदा तयोः सहभावादयमर्थोलभ्यते अहा च एतद्रात्रेरुपलक्षणम् अहोरात्राणि च पीपयन् अस्मान्प्याययेयुः ॥ २ ॥

7.65.3
ता भूरि᳚पाशा॒वनृ᳚तस्य॒ सेतू᳚ दुर॒त्येतू᳚ रि॒पवे॒ मर्त्या᳚य ।
ऋ॒तस्य᳚ मित्रावरुणा प॒था वा᳚म॒पो न ना॒वा दु᳚रि॒ता त᳚रेम ॥
▶ पदपाठः (Word-by-word)
ता । भूरि᳚॑पाशौ । अनृ᳚तस्य । सेतू॒ इति᳚ । दु॒र॒त्येतू॒ इति᳚ दुः॒॑अ॒त्येतू᳚ । रि॒पवे᳚ । मर्त्या᳚य ।
ऋ॒तस्य᳚ । मि॒त्रा॒व॒रु॒णा॒ । प॒था । वा॒म् । अ॒पः । न । ना॒वा । दुः॒॑इ॒ता । त॒रे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ मित्रावरुणौ भूरिपाशौ प्रभूतबन्धनसाधनपाशोपेतौ अनृतस्य यागरहितस्य सेतू सेतुवत् बन्धकौ रिपवे मर्त्याय वैरिजनाय दुरत्येतू दुरतिक्रमौ भवतः । हे मित्रावरुणा तादृशौ मित्रावरुणौ वां युवयोरृतस्य यज्ञस्य युव्योरर्थायानुष्ठीयमानस्य यागस्य पथा मार्गेण दुरिता दुःखानि तरेम नावा अपोन प्रभूतान्युदकानीव ॥ ३ ॥

7.65.4
आ नो᳚ मित्रावरुणा ह॒व्यजु᳚ष्टिं घृ॒तैर्गव्यू᳚तिमुक्षत॒मिळा᳚भिः ।
प्रति᳚ वा॒मत्र॒ वर॒मा जना᳚य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारो᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्य॑जु᳚ष्टिम् । घृ॒तैः । गव्यू᳚तिम् । उ॒क्ष॒त॒म् । इळा᳚भिः ।
प्रति᳚ । वा॒म् । अत्र᳚ । वर᳚म् । आ । जना᳚य । पृ॒णी॒तम् । उ॒द्नः । दि॒व्यस्य᳚ । चारोः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणा मित्रावरुणौ नोस्माकं हव्यजुष्टिं हविः सेवनवन्तं यज्ञं आगच्छतमितिशेषः आगत्य चेच्छाभिरन्नैः सह घृतैरुदकैर्गव्यू- तिमस्ममदीयां भूमिं उक्षतं सिञ्चतम् वां युवां प्रति अत्रास्मिन् लोके वरं उत्कृष्टं हविः स्तोत्रं वा कः आयच्छेदितिशेषः अतः केवलं कृपयैव जनाय दिव्यस्य दिविभवस्य चारोश्चरणीयस्य उद्गः उदकस्य कर्मणिषष्ठी उक्तलक्षणमुदकं पृणीतम् प्रयच्छतम् ॥ ४ ॥

7.65.5
ए॒ष स्तोमो᳚ वरुण मित्र॒ तुभ्यं॒ सोमः᳚ शु॒क्रो न वा॒यवे᳚॑यामि ।
अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्तोमः᳚ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य᳚म् । सोमः᳚ । शु॒क्रः । न । वा॒यवे᳚ । अ॒या॒मि॒ ।
अ॒वि॒ष्टम् । धियः᳚ । जि॒गृ॒तम् । पुर᳚म्॑धीः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषः स्तोमइति पञ्चमी गता ॥ ५ ॥

प्रमित्रयोरित्येकोनविंशत्यृचमेकादशं सूक्तं वसिष्ठस्यार्षम् अत्रेयमनुक्रमणिका-प्रमित्रयोरेकोना गायत्रं दशम्याद्यास्त्रयः प्रगाथाः पुरउष्णिक् चतुर्थ्याद्यादशादित्यास्तिस्रः सौर्यइति । दशमीबृहती एकादशीसतोबृहती द्वादशीबृहती त्रयोदशीसतोबृहती चतुर्दशी- बृहती पञ्चदशीसतोबृहती षोडशीपुरउष्णिक् शिष्टागायत्र्यः चतुर्थ्याद्यास्त्रयोदश्यन्ताः आदित्यदेवताः चतुर्दश्याद्याः स्तिस्रः सूर्यदेवत्याः आद्यन्तौतृचौ पूर्ववन्मैत्रावरुणौ अग्निष्टोमेमाध्यन्दिनसवने मैत्रावरुणशस्त्रे आदितोनवर्चः शस्याः प्रमित्रयोर्वरुणयोरितिनवेति सूत्रितत्वात् । पृष्ठ्याभिप्लवषडहयोः स्तोमवृद्धिनिमित्तमावापार्था आद्याः षळृचः सूत्रितञ्च-प्रमित्रयोर्वरुणयोरितिषळिति ।